________________
टिप्पणीसमलङ्कृतदीधिति-कल्पलताख्यटीकाद्वयविभूषितः । १११
कल्पलता।
विपर्यय इति । अङ्कुराप्रयोजकमपि बीजं स्यादित्यत्र किं बाधकमित्यर्थः । तमूलव्याप्तौ विपक्षबा. धक(?)माह । अङ्कुरस्योति । पीजत्वेन चेदङ्करप्रयो. जकता न स्यात् तदा कदाचिदबीजादप्यङ्कुरः स्यात(२), तच्चानिष्टमित्यर्थः । ननु तर्कमात्रमतन्त्रमित्यत आह । अस्तु तहति । बीजत्वमेव स्वभावहेतुः, तच्च(३) कुशूलस्थ(४) स्वरूपासिद्धं मा(५) स्यादिति प्रथमत एव परमङ्गीकारयति । बीजत्वं तस्येति(६)। कु. शूलस्थं बीजमङ्कुरप्रयोजक, बीजत्वात् , क्षेत्रपतितबी. जवदित्यर्थः ।। • अङ्कुरस्य (हि) जातिप्रतिनियमो न तावन्निनिमित्तः(७), सार्वत्रिकत्वप्रसङ्गात् । नाप्यन्यनिमि
दीधितिः। उक्त निनिमित्त(क)त्वेऽनिष्टमाह । सार्वत्रिकत्वेति(८) । सार्वत्रिकत्वम् कार्यमात्रावृत्तित्वम् , तथा चाकुरत्वं यदि किश्चिद्रूपावच्छिन्नकारणताप्रतियोगिककार्यतावच्छेदकं न स्यात् कार्यमात्रवृत्तिनातिनं स्पादित्यर्थः । नाप्यन्येति(९) ।
दीधितिटिप्पणी। उक्त इति ' सत्त्वादेस्तथात्वेपि न सर्ववृत्तित्वरूपं, अत आह । कार्यमात्रेति । वैय्यधिकरण्यादाह । तथा चेति। इतरबाधसत्त्वेन ना
(१) विपक्षे बाधक-कलि० मु० पु० पा० । (२) बीजत्वस्याव्यापकमङ् कुरप्रयोजकत्वं यदि स्यात् तदाऽबीजादप्य कुरः स्यात्-कलि. मु० पु० पा०। (३) तस्य च-पुण० पु० पा०। (१) कुशलस्थ-पुण० पु० पा० ।
(५) स्वरूपासिद्धिर्न-पुण० पु० पा० । स्वरूपासिद्धं--पाठः । (६) आर्थक्रमानुरोधेन पाठक्रममनादृत्यदं प्रतीकधारणम् । (.) मिनिमित्तकः-पाठः । (८) सार्वत्रिकति-पा०१ पु०। (९) नाप्यन्यति-नास्ति कचित् । ।