________________
आत्मतत्त्वविवेकः
-
कल्पलता। जस्थ(१) बीजजातीयत्वं न स्यादित्यर्थः । यदि कुशूलस्थं बीजमकरं प्रति प्रयोजकं न स्या(द्वीजं न स्था)दित्यस्मद्दिशा तर्कोक्तिः। ननु कुशूलस्थस्याङ्कुराप्रयोजकत्वमापादकमेवासिहमित्यत आह । अभ्युपे. तमिति । पराभ्युपगममात्रेणैव(२) तर्कप्रवृत्त पादका. सिद्धि(३)स्तत्र दोष इत्यर्थः । परैः सौगतैः । प्रसङ्गा. स्मको(४) हेतुः प्रसङ्गहेतुः । व्यापकानुपलब्धिरिति । बीजत्वस्य व्यापकमङ्करप्रयोजकत्वं, त्वया च तथा नाभ्युपगम्यते इति त्वदिशा तदनुपलब्धिरित्यर्थः । __विपर्यये(पि) किं बाधकमिति चेत, अङ्कुरस्य जातिप्रतिनियमाकस्मिकत्वप्रसङ्ग इत्युक्तम् । बीजत्वं तस्य प्रत्यक्षसिद्धमशक्यापह्नवमिति चेत, अस्तु तर्हि विपर्ययः, यबीजं तदङ्कुरं प्रति प्रयोजक(५), यथा (ऽन्त्य)सामग्रीमध्यमध्यासीनं बीजम्,बीजं चेदं विवा.. दास्पदमिति(६) स्वभावहेतुः ।
दीधितिः । आकस्मिकत्वम् निर्निमित्त(क)त्वम् । स्वभावहेतुः अनुमापको हेतुः । तादात्म्यहेतुरियन्ये ।।
दीधितिटिप्पणी। अनुमापकः पक्षधर्म ताशालीत्यर्थः । तादात्म्यहेतुः तादात्म्यस. म्बन्धेन हेतुः ॥ (१) बीजस्य-नास्ति क्वचित् । (२) भ्युपगममाश्रित्यैव-पुण० पु. पा० । (३) प्रवृत्ते!त्पादकासिद्धि-पुग० पु. पा० । ( ४ ) प्रसङ्गात्मा-पुण० पु० पा० । (५) प्रति जनक-पाठः। (६) विवादपदं-पुण० पु० पा० ।