________________
टिप्पणीसमलङ्कृतदीधिति - कल्पलताव्यटीकाद्वयविभूषितः । १०९
व्यापकानुपलब्धिः प्रसङ्गहेतुः ।
दीधितिः 1:1
व्यापकस्य बीजत्वव्यापक (१) स्याङ्कुरप्रयोजकत्वस्य अनुपलब्धिः अनुपलब्धिविषयोऽभावः । प्रसङ्गहेतुः प्रसङ्गस्य प्रसअको वा हेतुः।। दीधितिटिप्पणी ।
व्यापकं चात्र विपर्ययानुमाने बोध्यम् । ज्ञानाभावस्य हेतुत्वाकरणादाह । अनुपलब्धीति । षष्ठीतत्पुरुष लक्षणापतेः कर्मधारयमाह । प्रसजको वेति ॥
कल्पलता ।
परः पृच्छति । कस्येति । प्रमाणं विना हस्तसमाचरणमात्रं सर्व (२) मिदमिति भावः । अपमिति । बीजत्वमेवाङ्कुरं प्रति स्वरूपयोग्यतावच्छेदकं, न स्वकुरे (३) कुर्वद्रूपत्वमिति प्रतिपादनार्थे यः पूर्वोको व्यापारकलाप इत्यर्थः । उसरम्, तदुत्पत्तीति । (तत उत्पत्तिस्तदुत्पत्तिः ) कार्यकारणभाव: (४), स च प्रत्य क्षानुपलम्भाभ्यामन्वयव्यतिरेकाभ्यामवगम्यते (५), तथा च बीजे सत्यङ्करस्तं विना नाकुर इति प्रत्यक्षादेवान्वयव्यतिरेक (६) ग्रह सहकारिणोनुमानाद्वा ह्यत इति का तत्र कथन्तेत्यर्थः । ननु तथापि कथायां न्याय उपदर्शनीयो भवतीत्यत आह । अथेति । सौगतमतानुसारेणैव न्यायमुपदर्शयति । यदिति । बीजजातीयं नाङ्कुरं प्रति प्रयोजकमिति स्वपाभ्युपगम्यते, तदा त्वदभ्युपगमानुसारेण कुशूलस्थस्य बी.
गृ.
(१) बीजत्व - कलि० मु० पु० पा० ।
(२) मात्र पुण० पु० पा० । (३) त्वङ्कुर - पुण० पु० पा० । ( ४ ) कारणभावात् पाठः ।
(५) रेकाभ्यामेव गम्यते - कलि० मु० पु० पा० । (1):1-913:1