________________
१०८
. मात्मतत्वविवेका
कस्य पुनः प्रमाणस्यायं व्यापारकलाप इति चेत, तदुत्पत्तिनिश्चयहेतोः प्रत्यक्षानुपलम्भात्मकस्येति(१) ब्रूमः । अथ न्यायेन विना न ते परितोषः, शृणु तमपि तदा(२)। यदङ्कुरं(३) प्रत्यप्रयोजकं न तबीजजातीयं, यथा शिलाशकलम् , अङ्कुरं प्रत्यप्रयोजकं च कुशूलनिहितं(४) बीजमभ्युपेतं परैरिति
दीधितिः। तदुत्पत्तिः, तस्मादुत्पत्तिः कार्यकारणभावः । प्रत्यक्षम् कारणान्वये कार्यस्य प्रसक्षम् , अनुपलम्भः(५) कारणव्यतिरेके कार्यव्यतिरेकस्योपलम्भः, तथा चान्वयव्यतिरेकग्रह(६). सध्रीचीनस्य प्रत्यक्षस्येत्यर्थः । पररीत्यैव परं प्रति सतर्क(७). न्यायप्रयोगमाह । यदरमित्यादि । परैः सौगतैः ।
दीधितिटिप्पणी। मूले, व्यापारकलापः कारणत्वादिनिर्णयरूपः । तदुत्पचिपन कार्यकारणभाव उच्यते, तस्य च योगार्थमाह । तदुत्पत्तीति । त. स्मात् कारणात् । एवं प्रत्यक्षानुपलम्भपदस्यापि योगार्थमाह । प्रत्यक्षमिति । अन्वयव्यतिरेकाहस्य प्रमाणत्वं नास्तीत्यतः प्रत्यक्ष. परपरणेनाह । तथा चेति । प्रत्यक्षरूपप्रमाणमेवास्तीति भावः। स्व. मतीयभ्यायो यदि, तदा कथं धवयवप्रयोगोऽत आह । पररीत्येति । सतति । विपर्यये किं बाधकमित्यादिना तस्याप्यभिधानादिति भावः । पररीत्यानुमाने परपदेन नैय्यायिकबोधनादाह । परैरिति ।
(१) नुपलम्भस्येति-पाठः। (२) तदा-नास्ति कचित् । (.) यपथा यदकुरं-पाठः । ।.) कुशूलस्थं-पुण. पु० पा० । (५) अनुपलम्भश्च-कलि० मु० पु० पा०।। (१) म्यातरकोनि-पाठः। (.) मतर्क-पुण पु० पा० ।