________________
१०२
आत्मतत्वविवेकः भिचरेत, व्यभिचरेदपि शिंशपा पादपम्, अविशेषात, तथा च गतं स्वभावहेतुना । विपर्यये बाधकं विशेष इति चेन्न, तस्येहापि सत्वात(१), तदभावे स्वभाव
दीधितिः। त्यादि(२) । यस्य यज्जातीयस्य । विशेषः एकदेशवृत्तिः । तम् तज्जातीयम् , तां जातिमिति यावत् । शिशपा शिंशपात्वम् । स्वभावहेतुना तादात्म्यहेतुना । विपर्यय इति । वृक्षस्वभावा वृक्षसामग्रयन्तर्गतसामग्रीका च शिंशपा यदि वृक्षमतिपतेत् तत्सामग्रीमतिपत्य(३) वा जायेत, तदा आत्मा(४)नमेवातिपतेत स्वसामग्रीमेवातिपत्य(५) जायतेति बाधकम् । तस्येति । अङ्करकुद्रूपस्वभावस्तत्सामग्यन्तर्गतसामग्रीकश्च शालिरकुरकुर्वदूपं च शालिस्वभावं तत्सामग्न्यन्तर्गतसामग्रीकं च यदि
दीधितिटिप्पणी। जात्याश्रयपरत्वं, अत आह । यजातीयेति । यद्वा तं व्यभिचरेदि. त्यस्य तां जातिमित्यवश्यं व्याख्येयम् , तथा च यस्येत्यस्य व्यक्तिप. रत्वे तां जातिमिति तत्पदेन जातिपरामर्शो विरुधत इत्यत आह । यज्जातीयस्येति । विशेषपदेन व्याप्य उच्यते, तश्च न लगति, जाते. व्यक्तिव्याप्यत्वाभावादत आह । विशेष इति । एवञ्च जाति. पदस्य परनिपातो बोद्धव्यः , तथा च जातिविशेषः विशेषजा. तिरित्यर्थः, अन्यथानन्वयात् । न च पादपपदं कथं भावपरं न कृतमिति वाच्यम् । तमिति मूलस्य तज्जातीयमिति व्याख्यानेन व्यापकदिशि भावपरस्वासमतेः। तां जातिमिति तु पर्यवसितार्थ. मात्रकथनम्, न तु शब्दार्थकथनम् । स्वभावहेतुना तादात्म्यसम्ब. न्धेन हेतुना, गतमित्यर्थः । शालिवदङ्करकुर्वदूप(६)मपि पक्षीकृत्या. पि तत् पार्यत इति दर्शयति । अङ्कुरकुर्वद्रूपं चति । शिशपावृत.
(१) सम्भवात्-पाठः । समानत्वात्---पाठः। (२) यश्चेति -पाठः । (३) मतीत्य-पा० २ पु०। (१) सदा स्वात्मा-पुण० पु० पा० । (५) मेव वातिपत्य -पुण पु० पा०। (६) कुपवत्त्व इत्यादर्शपुस्तके पाठः ।
-
-