________________
टिप्पणीसमलङ्कृतदीधिति - कल्पलता व्यटीकाद्वयविभूषितः । १०१ मिथः कचित् तुरमविहग ( १ ) योरपि सम्भेदसम्भवात् ।
दीधितिटिप्पणी |
उभयत्र दोषदानेपि विशिष्य तद्दानाय परिदृश्यमानेति मूलम् ॥
कल्पलता ।
नोभयमपी ( २ ) ति । न विरोधो न वा व्याप्यव्यापकभाव इत्यर्थः । व्यक्तिभेदेनेति । कस्याश्चितौ क्षेत्रपतितायां शालित्वकुर्वद्रूपत्वयोः समावेशेपि क्वचिदसमावेशः स्यादित्यर्थः । विलीनमिति । परस्परात्यन्ताभाव समानाधिकरणयोरपि जात्योः सामानाधिकरण्ये जातिप्रतिनियमो न स्थाद्वित्यर्थः । एतदेवाह । परिदृश्येति ॥
यश्व यस्य जातिविशेषः (३), स चेत् तं व्यदीधितिः । समाविष्टजात्योर्मिथोव्यभिचारे बाधकम् ( ४ ), यश्चे
दीधितिटिप्पणी ।
विशेषपदेनैकदेशवृतिरुच्यते, न तु व्याप्यं, शालित्वस्य कुद्रपत्वव्याप्यत्वास्वीकारात्, अत एकदेशवृत्तित्वं वाच्यं तच तत्क तिपयवृत्तित्वम्, न च घटत्वं द्रव्यत्वकतिपयवृत्तिरतो यत्पदस्य
कता व्यक्ति देनेत्यादेः स्पष्टयति । व्यतीति । एवं सति तुरगत्वविहगत्वादीनामविशेषितानामेव सर्वमतसिद्धविरोध विलीयेत, तेषां सामानाधिकरण्येपि उक्तदिशा सङ्ग्रहप्रतिक्षेपोपपत्तेरित्याह । विलीनमिति । तदतज्जातीयतापदेन तज्जातितदन्यजात्योर्विवक्षणे तयोरविरोधादसङ्गतिरतस्तत्पदं व्याचष्टे । तदतदिति । जातिसङ्कररूपबाधकस्योक्त नियमानां मध्ये द्वितीयनियमोपपादकतया परिदृश्यमानेत्यादिमूलं प्रथमनियमोपपादकतया च यश्चेत्यादिमूलं व्याचष्टे, मिथ इत्यादि । - गदाधरः । ( १ ) तुरङ्गमविहङ्गम - पुन० पु० पा० । (२) नोभयमि- पुण० पु० पा० । (३) अयं पाठटिप्पणीकृन्मतः । यस्य विशेषः - पुण० पु० पा० । ( ४ ) व्यभिचारे च बाधकम् - पाठः । व्यभिचारे - पा० २ पु० ।