________________
आरमतस्वविवेकः
प्रकारान्तराभावात । व्यक्तिभेदेन सङ्ग्रहप्रतिक्षेपावपि न विरुद्धाविति (१) चेत्, विलीनमिदानीं तदतज्जातीयताविरोधेन, परिदृश्यमानकतिपय ( २ ) व्यक्तिप्रतिक्षेपेपि
.२.००
दीधितिः । हु: ( ३ ) | व्यक्तिभेदे (नेति । व्यक्तिविशेषवृत्तित्वावच्छिन्न (४)सङ्ग्राहकत्वव्यक्तिविशेषवृत्तित्वावच्छिन्नमतिक्षेपकत्वे (५) इत्यर्थः । तदतज्जातीयेति (३) । तज्जातितत्प्रतिक्षेपकजातिमच्चे । मिथोव्यभिचारिजात्योः समावेशे बाधकम्, परिदृश्यमानेति (७) ।
दीधितिटिप्पणी ।
स्यात् तदैव तत्साक्षात्कारप्रतिबन्धकत्वेनेदं स्यादित्यर्थः । एकस्यैव सामान्यस्य सङ्ग्राहकत्वं प्रतिक्षेपकत्वं च कथं व्यक्तिभेव इत्यतोवच्छेदकभेदपरतया उपपादयन्नाह । व्यक्तिविशेषेति । यथाश्रुते अतज्जातीयपदेन तज्जातीयभेदस्यैव लाभात् स चासङ्गतः, साङ्कचैंपि तयस्तजातीयभेदाभावादत आह । तदतदिति । यद्वा तज्जातितद्भिन्नजातिमत्त्वं न विरुद्धम्, एकस्यैव तद्धटस्य घटत्व पृथिवीत्वोभयजातिमश्वादत आह । तदतदिति । विलीनमित्यादिमूलेन सामान्यत
"
(१) सङ्ग्रह प्रतिक्षेपावविरुद्धाविति पाठः । (२) दृश्यमान - पाठ: ।
(३) यद्यपि सङ्कीर्णजातिस्वीकारे शिंशपात्यादिलिङ्गकवृक्षत्वाद्यनुमाने विपक्षबाधकविरहेण व्यभिचारशङ्कानिवृत्त्यसम्भवाद्धान्तपुरुषीयतदनुमान विलोपप्रसङ्गस्य तथा च गतं स्वभावहेतुनेस्यादिना मूले वक्ष्यमाणस्य दुर्वास्तव, तथापि अप्रामाणिकत्र्यभिचारिज।तिकल्पने गौरवज्ञानस्यैव तत्कल्पना परिपन्थिनो जागरूकतया तादृशस्थले सङ्कीर्णजातिनिरासः सुकरः, यादृशस्थले तु तादृशातेः प्रामाणिकत्वं तत्र सतोपि गौरवज्ञानस्य प्रामाणिकपदार्थगोचरत्वेना किञ्चित्करतया सङ्कीर्णजातिः स्वीकरणीयेति तात्पर्यम् । अत एव न पुनः प्रमाणे सत्यपि परासामित्यादि स्वयमन्युक्तम् । मिथः समाविष्टजात्योः सामान्यत एव मिथोऽव्यभिचारनियमो नाभ्युपेयते, विशेषतस्तु वृक्षत्व शिशपात्वादीनां तादृशनियमः स्वीक्रियत एव, उद्भूतत्वरूपत्वादिजातीनां तु न, व्याभवारिजातिकल्पनापरिपन्थिनो गौरवज्ञानस्य प्रामाणिक तदन्यपदार्थगोचरत्वाभ्यामेव वाबुनियमसाधकबाधकत्वादिति निगर्वः । ( ४ ) वच्छिन्नं - पा० २ पु० ।
(६) तदतज्जातीति -पुण० पु० पा० ।
धर्मिभेदः कथं व्यापकत्वविरोधित्वोपपादक इन्यतः स्वरूपेण सङ्ग्राहक न्यायनिरूपकस्यापि विशेषयविशेषावच्छिन्नस्य तन्निरूपकन्यमविरुद्ध मित्यर्थ
(५) प्रतिक्षेपकत्वेन - पाठः ।
(७) अध्यापकस्याविरोधिनश्च धर्मस्य