________________
टिप्पणीसमलङ्कृतदीधिति - कल्पलताव्यटीकाद्वयविभूषितः । ९९
।
न तु प्रमेति तद्रूपे मूर्तप्रत्यक्षत प्रयोजकमुद्भूनत्वं नैयायिकै पियमिति वाच्यम् । प्रभाया अचाक्षुषत्वे तहत संयोगविभागचलनाना मचाक्षुषत्यप्रसङ्गेन तन्मतस्यानितुच्छत्वाद अथैवं प्रत्यक्षे महत्त्व हेतुता न स्यात्, परम णुरूपादावुद्भूतत्वस्य सङ्कीर्णजातिमङ्गीकुवैतमनभ्युपगमसम्भवेन परमाण्वादिप्रत्यक्षापत्तेरयोगात् । न चावयविन भूतरूपादौ अवयवोद्भूतरूपादिहेतुता, अन्यथोद्भूतरूपाद्युत्पत्तिनियमासम्भवात् स्थूलद्रव्येषूभूतरूपाद्युत्पत्तये तदारम्भकपरमाणावुद्भूत रूपाभ्युपगम आवश्यक इति वाच्यम् । उद्भूतरूपवद्वन्द्य । यारम्भकैरेवाणुभिरनुद्भूतरूपवद्भर्जन कपालस्थवन्द्याद्यारम्भादवयवोद्भूतरूपस्यावयविनि तदुत्पादनियामकत्वासम्भवादन्यस्यैव तन्नियामकताया आवश्यकत्वात् तत्र तत्र विभिन्नपरमाणुकल्पन गौरवात् । अस्तु वा प्रत्यक्षत्व प्रयोजकादन्य एव तद्व्यापकः परमाणुरूपसाधारणोद्भस्मत्प्रयोजक इति चेत्, परमाणुयणु कानभ्युपगन्तृणामिव तदुपगमेपि महत्त्वकारणता नाभ्युपगन्तव्यैव । वस्तुतो जातिसङ्करस्यादोषत्वे रूपनिष्ठोद्भव महत्त्वनिष्ठोद्भवो वा चाक्षुपत्वप्रयो
प्रत्यक्षत्व रूप
उत्कटव्यवहार इत्यनेन स्वीकृताभिरुत्कर्षजातिभि
कता कल्प्यते इत्यत्र विनिगमनाविरहान्महत्त्वस्यापि तत्कारणता दुईवि । जातिसङ्करस्य दोषत्वेपि एकत्वोव एवं प्रत्यक्षत्वप्रयोजकः, महत्वे उत्कर्षापकर्षवत् एकत्वे अवान्तरजन्यन्तं सत्त्वेन सङ्करानवकाशादिति केचित् । चिन्तामणिकृता जातिसङ्करभयेन उद्भूतत्वमुपेक्ष्य नीलत्वादिव्याप्या भिन्नभिन्ना अनुभूतत्वजातयः स्वीकृताः, तदवच्छिन्नभेदकूटरूपद्रव एव प्रत्यक्षताप्रयोजक इत्युपगतम् तन्मतं निराकरोति । अनुद्भूतत्वमिति । मानाभावादिति । एकस्योद्भवस्य प्रत्यक्षताप्रयोजकत्वसम्भवे तावतैवोपपतेरिति भावः । उद्भूतत्वाभावस्यानुद्भूतत्वभ्यवहारप्रयोजकत्वे शब्दसुखादावपि तद्व्यवहारप्रसङ्गात्तद्व्यावृत्तमनुद्भूतव्यवहारनियामकमाह । शब्दसुखादीति । अप्रत्यक्षत्वनिमित्तक इति I उद्भवस्य त्वादिति भावः । अत एव जातिसङ्करस्यादोषत्वादेव । मन्दम् अपकृष्टम् । अपेक्ष्य, अवधित्वेन विषयीकृत्य । अस्य अनुगत इत्यस्य च सम्बन्धः । अनुगत इत्यनेन सङ्करपरीहाराय नानात्वेन रुत्कटव्यवहारानुपपत्तिदर्शिता । विभिन्नजातीयध्वति । मधुररसास्वादमधुरशब्दश्रवणादिरूपविमित्रजातीयहेतुसमुत्थेष्वित्यादिः । एतावता तत्तज्जातीयकारणप्रयोज्योत्कट। नुत्कटसुखसाधारणजातिभिः सहोत्कटत्वस्य सङ्करो दर्शितः । ननूत्कटत्वरूपजातीनामननुगमेपि शब्दगतकत्वादित्र्याप्यनानातारत्वादीनामिव सजातीयसाक्षात्कारप्रतिबन्धकतावच्छेदकसुखवृत्तिजातित्वेन तासामनुगमसम्भवादनुगतत्र्यवहारोपपत्तिरित्यत आह । अननुभूतसुख इति । मानाभावेनेति । सुखसत्वइयं तत्साचात्काराभ्युपगमादिति शेषः । सजातीयेति । सुखनिष्टोत्कटत्वस्य सुखसाक्षात्कारतिबन्धकतावच्छेदकत्वासम्भवादित्यर्थः । यथा तारशब्दे गृह्यमाणे मन्दशब्दो न ते तथा उत्कटसुखे गृद्यमाणे मन्दसुखं न गृद्यत इति म, उभयसत्त्वे समूहालम्बनसाक्षात्कार एवेत्युत्कटसुखस्य मन्दसुखसाक्षात्काराप्रतिबन्धकत्वादिति भावः । एवञ्चेदं सुखमस्मादुत्कटमितिव्यवहारानुरोधात्यञ्चम्यर्थः सावधिकत्वं जानावपि स्वीक्रियत एव अयमस्मात्तार इत्यादी तु सजातीयविषयक साक्षात्कारेत्यायनुगमकरूपमविष्टविषमित्वान्वयि प्रतियोगित्वमेव पञ्चम्यर्थ इति तारत्वादिजातीनां न सावधिकत्वमिति ध्येयम् । वत्थञ्चेति । जातिसङ्करस्यादोषत्वेनेत्यर्थः । एकैक एवेति । जातिसङ्करस्य दोषत्वे एकहस्तादिपरिमाणगतजातिविशेषैह्रस्वत्वदीर्घत्वादिभिः सङ्करेण देवयानुपपत्तेरिति भावः । गदाधरः ।
यू
अपि तु