________________
टिप्पणीसमलङ्कतदीधिति-कल्पलताख्यटीकाद्वयविभूषितः। १०३ खानुपपत्तेः । उपपत्तौ वा किं बाधकानुसरणव्यसनेनेति(१)।
दीधितिः। तदतिपतेत् तत्सामग्रीमतिपत्य वा जायेत, स्वात्मानमेवाति. पतेत् स्वसामग्रीमेव चाति(२)पत्य जायतेत्येवं रूपस्य वि. पर्यये बाधकस्येत्यर्थः। तदभाव विपर्यये बाधकामावे ॥
दीधितिटिप्पणी। योर्न परस्परपक्षत्वं सम्भवतीत्येकमात्रपक्षत्वमेव दर्शितम् । परस्पर व्यभिचारिणोरेघ वयस्य पक्षत्वसम्भवात् । अत्र च तत्सामग्न्यन्तर्गतत्वं तत्सामग्रीसमानाधिकरणाभावप्रतियोगित्वे सति तत्समाना. धिकरणत्वरूपं बोध्यम । साध्यमाह । यदीति । तत्पदेन(४) उभयप. क्षीयसाध्यस्यैव परामर्शः, सत्त्वपर्यन्तस्याभावबोधनं निरर्थकमत आह । तदभाव इति ॥
कल्पलता। यश्चेति । शालित्वव्याप्यं कुर्वपत्वं यदि यवेपि स्यात् , तदा शिंशपात्वमपिवृक्षत्वं व्यभिचरेदित्यर्थः । किश्चात इत्यत आह । तथा चेति । विपर्यय इति । यदि शिंशपा वृक्षं व्यभिचरेत् तदात्मानमपि(५) व्यभिचरेदितिविपक्षबाधकवलेन स्वभावहेतुः प्रवर्ततामित्यर्थः। तस्येहापीति । कुर्वद्रूपत्व(६)स्थापि शालि. त्वस्वभावत्वाद्विपक्ष(७)बाधकस्यास्य सत्त्वादित्यर्थः(८)। तदभाव विपक्षबाधकाभावे । उपपत्तौ वेति । वि.
(१) नुसरणेनेति-पाठः। (२) चामि-पुण० पु० पा० । ( ३ ) जायेत, एवं-पाठः । (1) तस्येहापि सत्त्वात्, तदभाव इत्यादिमूलस्थेन द्वितीयतत्पदेनेत्यर्थः । (५) तदात्मानमेव–पाठः। (६) कुर्वदूप-काल. मु. पु० पा०। (0) शालिस्वभावत्वविपक्ष-पुण० पु० पा० ।। (८) बाधकस्य तुल्यत्वादित्यर्थः-पाठः । बाधकसत्त्वादित्यर्थ:---पुण० पु. पा० ।