________________
टिप्पणीसमलङ्कतदीधिति-कल्पलताख्यटीकादयविभूषितः । ९७
दीधितिः। संस्थानादि(१)व्यङ्गयानां मिथोविरुद्धसामग्रीपयोज्याना(२) जा. तीनां व्यञ्जकसामग्रीसङ्करासम्भवेन(३) सङ्करो नेष्यते, न पुन: प्रमाणे सत्यपि परासाम् , अत एषानुभूतरूपादिवादिनां शुक्ल. पीतशीतोष्णादिसाधारणं प्रत्यक्षत्वप्रयोजकमेक(४)मुदतत्वम् , अनुभूतत्वं च(५) न जातिः,मानाभावाद, शब्दसुखादिव्या.
दीधितिटिप्पणी। दाय सङ्कर इति वाच्यम्। तादृशजातेः कर्मजत्वव्याप्यत्वात् । जाति. सङ्करं दूषयति ।अपरे त्विति । परासाम् जातीनाम्। अनुभूतत्वस्य जातित्वमङ्गीकृत्य तादृशजातीनामभावकूट एव प्रत्यक्षत्वप्रयोजकः, न तू. द्भूतत्वं जातिरिति ये वदन्ति तेषां मतं दूषयति । अत एवेति ।मानाभा. वादिति । उद्भूतत्ववत् कारणतावच्छेदकत्वाद्यभावात् । नन्वस्मव्यवहिनोनारत्वस्वसामानाधिकरण्योभयसम्बन्धेन क्रियाविशिष्टत्वं कार्यतावच्छेदके निवेश्य उत्तरदेशस्य कार्यतावच्छेदकविशिष्ट कार्यानधिकरणत्वेन स्वाव्यवहितप्राकक्ष गावच्छिन्नक्रियाधिशिष्टसमवायस्य कार्यतावच्छेदकसम्बन्धत्वमुपगम्य वा व्यभिचारवारणस्यावश्यकतया तत एव संयोगजसंयोगेपि व्यभिचारवारणसम्भवात् कर्मसामान्यजन्यतावच्छेदकजातेरप्रामाणिकता, एवमवयवगगनादिसंयोगस्य सामानाधिकरण्यसम्बन्धेनावयविगगनादिसंयोगहेतोस्तादृशसम्बन्धेनासम्बधिनि गगनादावुत्पत्तेर्व्यभिचारस्य धारणायादरणीयेन प्रकारेणैव क्रियाजन्यसंयोगे व्यभिचारवारणसम्भवात्संयोगजन्यनावच्छेदकजातेरप्यप्रामाणिकतेत्याशयात् । अथैवं मृत्तिकादिघटनिष्ठचक्रादिजन्यतःयां संस्थानविशेषवन्मृत्तिकात्वादिकमेवावच्छेदकं वाच्यम् , तथा च लाघवान्मृनिकात्वारिच्याप्यजातिविशेषाणामेव तत्कार्यतावच्छेदकतया कल्पनमुचितमिति पूर्वमतमेव सम्यगिति वाच्यम् । मृतिकात्वादिव्याप्यजातिविशेषाणामुक्तयुक्त्या प्रामाणिकत्वेपि घटपदस्य नानार्थताया गौरवेण प्रत्यक्षसिद्धसर्वजातीयघटसंस्थानानुगमकजातिविशेषावच्छिन्नसंस्थानस्य घटपदशक्यतापच्छेदकत्वेन तसज्जातीनां घटत्वानात्मकतया पूर्वमतस्यासम्यक्त्वात् । वस्तुतस्तु घटनिष्ठजातीनां प्रमाणान्तरशून्यत्वे दण्डादीनां घटहेतुत्वमेवाप्रामाणिकम, कुतस्तजन्यतावच्छेदकतया व्यगतजातिसिद्धिः । न चैवं घटार्थनो दण्डादिगोचरप्रवृत्त्यनुपपत्तिः, अवयवक्रियाविशेषद्वारा घटजनकविलक्षणसंयोगं प्रति दण्डादीना हेतुतयैव दण्डाद। घटार्थिप्रवृत्तेरुपपत्तेः, इष्टफलप्रयोजकगोचरप्रवृत्ती फलप्रयोजकताज्ञानसहकृता प्रयोज्यफलगोचरेच्छ। साक्षादेव हेतुः, आन्तरालिकफलसाधनताज्ञानसहकृततत्कलेच्छाद्वारा वेत्यन्यदेतत् ।-गदाधरः। (१) संस्थान-पाठः।
(२) नाच-पुण० पु. पा० । (१) अयमेव गदाधरसम्मतः । सङ्करमन्तरेण–पाठः । (१) प्रयोजक-कलि. मु. पु. पा०। (५) अनुभूतत्वं तु-पाठः।