________________
आत्मतत्त्वधिषे का
नन्वेवं कथं नीलो महान् चटचलतीत्याकारा घटत्वे रूपपरिमाणचलनादिसामानाधिकरण्यमतीतिरित्यत आह । परम्परासम्बन्धेनेति । घटे तादृशजातेः स्वाश्रयसमवाथिसमवेतत्वरूप परम्परा सम्बन्धसत्त्वेनेत्यर्थः । तादृशपरम्परायाः सम्बन्धत्वमसहमानमाह । तादृशेति । जातिविशेषवदित्यर्थः । संस्थानवत्त्वम्, संस्थानसमानाधिकरणद्रव्यत्वम् । अन्यतरकर्मत्वादिना क्रियाहेतुत्वे मानाभावादाह, आदीति, कर्मसामान्यजन्यतावच्छेदकपरिग्राहकम्, कपालिकाकपालसंयोगजकपालद्वयसंयोगादपि घटोत्पत्त्या तत्संयोगे कर्मजन्यतावच्छेदकजातिविरहेण घटत्वस्य च व्यवहारानुरोधात् स्वीकरणीयत्वेन तयोः सङ्करो बोध्यः । न च संयोगजः संयोगो न द्रव्यारम्भकः, अपि तु कर्मज एव, परमाणुद्रये संयोगजसंयोगासम्भवेन कर्मजतत्संयोगस्यैव द्यणुकारम्भकतया विपरीतकल्पनाया असम्भवादिति वाच्यम् । यत्र कपालिकासंयुक्त कपालिकाया कपालिकान्तरसंयोगात् कपालान्तरोत्पत्तिस्तत्र कपालयोः कर्मजन्यसंयोगासम्भवेन तत्र घटानुभवस्य दुरपन्हवत्वेन संयोगजसंयोगस्यापि द्रव्यारम्भकताया दुर्वारत्वात् । ननु गुणगतजातौ सङ्करो न बाधकः, अपि तु द्रव्यगतजातावेवेति संस्थानवृत्तिघटत्वस्य कर्मजत्वादिना सङ्करेपि न जातित्वानुपपत्तिरित्यत आह । गुणेति । साङ्कर्यमिति । बाधकमिति शेषः । इति त्विति । एतादृशविशेषस्त्वित्यर्थः । शङ्करमिश्रमतानुसारेण सिद्धान्तं सङ्गमयति । अत्राहुरिति । नानैव घटत्वम्, घटपदवृत्तिनिमित्तं मित्रमित्रमेवेत्यर्थः तथा च सुवर्णत्वादिना न सङ्करः, समानाधिकरणजात्योयध्यव्यापकभावादिति भावः । एवं सति घटपदस्य नानार्थत्वापत्तिरित्यत्रेष्टापत्तिमाह । घटपदमपीति । ननु घटपदस्य नानार्थत्वे मापाषाणादिघटेषु इमौ घटौ एते घटा इत्याद्येकघटपदेन व्यवहारानुपपत्तिः, माईपाषाणादिनिष्ठ द्वित्वायवच्छिने एकजात्यवच्छिन्नाभेदस्य ततः प्रतीतेः, तस्य च बाधादित्यत आह । अनुगतेति । संस्थानवैजात्याग्रहेण एकजातीय संस्थानग्रहनिबन्धन इति । संस्थानव्यक्तीना मेदेपि द्वित्वावच्छिन्न एकजातीय संस्थानवदभेदसत्त्वेन तदभेदपर एव तादृशो व्यवहारः, यत्र एकः कर्मजसंयोगारभ्योऽपरश्च संयोगजसंयोगारभ्यस्तत्र संस्थानगतजात्योः सङ्करभयेन भेदेपि संस्थानवैजा त्याग्रहात् संस्थानयेोरेकजातीयत्वभ्रमेणाप्रमाणरूप एव तादृशो व्यवहार इत्यर्थः माईपाषाणादिघवेष्वयं घटोऽयं घट इति व्यवहारस्य च नानुपपत्तिप्रसक्तिः, घटपदस्य नानार्थतयैव तदुपपत्तेः । वस्तुतोऽयं घटोऽयं घट इति व्यवहारस्य भिन्नधर्मपरत्वे अयं घटोऽयमपि पट इत्यपि व्यवहारः स्यादित्याशङ्कयानुगतेत्यादिना समाहितम् । संस्थानगतघटत्वाभ्युपगमेन समाध्यन्तरमाह । सर्वजनीनेति । प्रतीतीत्युपलक्षणम्, व्यवहारस्याप्यनुगतघटत्वसाधकत्वं बोध्यम् । भिन्नमेवेति । घटानारम्भकान्यतरकर्मादिजन्य संयोगादिवृत्तितज्जन्यतावच्छेदकजातितोऽन्यदेवेत्यर्थः एतच्च व्याप्यत्वनिर्वाहकतयेोक्तम् । भिन्नत्वकल्प" नाबीजमाह । बाधकब लेनेति । घटपदमवृत्तिनिमित्तजातस्तारत्वादेरिवानुगतानतिप्रसक्तरूपा भावेनानुगतप्रत्ययानुरोधादेकत्वस्यावश्यकतया प्रसन्तजातिसङ्कररूपबाधकब लेनेत्यर्थः । ननु कर्मादिजन्यतावच्छेदक जातेरननुगमे कथं तज्जन्यतावच्छेदकत्वमत आह । जन्यतावच्छेदकभेदेपीति । भदोषादिति । कार्यकारणभावबाधकव्यभिचारादिदोषविरहादित्यर्थः, अवच्छेदकभेदे कार्यकारभावभेदेन गौरवस्य गत्यन्तरविरहेण | दोषत्वादिति भावः । कर्मजन्यतावच्छेदक जातिमनभ्युपगम्य जातिसङ्करमुद्धरति । अन्यतरेति । न चान्यतरकर्मत्वादिना विशेषरूपेण कर्मणो हेतुत्यस्य निर्युतिकत्वे कर्मसामान्य हेतुताया आवश्यकत्वात् तज्जन्यतावच्छेदकजा तेरावश्यक तेति तया सह घटत्वस्य सङ्करो दुर्वार एवेति वाच्यम् । जातिस्वीकारेप्युन्तरदेशे व्यभिचारेण स्वा