________________
मात्मतत्त्वविवेक
दीधितिः। दिति भाव(१) । अथैवं मृत्पाषाणसुवर्णादिघटेषु कथं घटत्व.
दीधितिटिप्पणी। मस्य जातिवाभाव इत्यादीनामित्यर्थः । एवम् जातिसङ्करस्य दो.
(१) मूले, विरोधाविरोधयोः प्रकारान्तराभावादिति । (पृष्ठे ९४ पतौ ११) विरोधाविरोधोभयविरोधिरूपान्तराभावादित्यर्थः, विरोधस्याविरोधस्य च विरहिणोऽसम्भवादिति यावत् । अत्र यदि विरोधस्तदभावव्याप्यत्वम् , अविरोधः सहावस्थायित्वमिति विवक्ष्यते, तदा तदुभयमवृत्तावेव नास्तीति प्रकारान्तराभावादित्यसङ्गतमत उभयोर्भावाभावरूपतामाह । विरोधाविरोधाविति । विरोधः तदधिकरणावृत्तित्वम् , अविरोधस्तदधिकरणवृत्तित्वमित्यर्थः । यद्यपि तयोस्तदभावव्याप्यत्वतदभावाव्याप्यत्वरूपत्वेपि प्रकारान्तराभावादिति सनाच्छते, तथापि गुरुशरीरतया तयोरुपेक्षितमिति ध्येयम् । ननु विरोधाविरोधयोः प्रकारान्तरासम्भवेपि ममाहकत्वप्रतिक्षेपकत्वयोः प्रकारान्तरं सम्भवत्येव, भूतत्वमूर्तत्यादौ तदभावादित्यसङ्गतिमाशङ्कय विरोधानङ्गीकारेऽविरोधोपगम आवश्यक इति जात्योरविरोधेऽवश्य समाद्यसमाहकभाव इति भाव स्पश्यति । तथः चेति । ननु व्याप्यव्यापकभावविरहेपि भूतत्वमूत्वायोरिव जात्योरपि सामानाधिकरण्यरूपोऽविरोधः स्वीकरणीय इत्याशङ्का 'नि. राकरोति । लाघवेनेति । मिथोव्यभिचारीति । जातिमात्रस्य स्वव्यभिचारिस्वनिष्ठव्यभिचारप्रतियोगिजातिसामानाधिकरण्याभावस्येत्यर्थः, सामान्यतोऽवधारणादित्यनेन सम्बध्यते । एतावता शालिवादी जातित्वेन हेतुना स्वव्यभिचारिस्वाव्यापकजातिसामान्यसामानाधिकरण्याभावसिद्धौ अथतस्तत्समानाधिकरणतादृशकुर्वदूपत्वजातिनिराकरणनिर्वाहः । न च जातित्वरूपहेतुमत्या सनायो स्वत्र्यभिचारिजात्यपसिध्या तटितसाध्यवत्त्वानिर्वाहः, स्वत्वाननुगमात सामान्यनियमानिर्वाहश्चेति पाच्यम् । स्वभ्यभिचारिस्वाध्यापकजातिसमानाधिकरणं यद्यत् स्वं तद्भेदकूटस्य साध्यतोपगमेन सामजस्यात् , तादृशस्वपदार्थस्य घटपटसंयोगादिव्यनीनामेव प्रसिद्धत्वात् । व्याप्यव्यापकभावापत्रं यदुभयं तदवृत्तिजातिमात्रवृत्तिद्वित्वस्याधेयतानवच्छेदकत्वनियमे वा तात्पर्यम् , स्वाश्रयस्वाश्रयव्यापकोभयवृत्ति ययत् तदन्यत्वरूपं द्वित्वविशेषणमवृत्त्यन्तार्थः, तादृशद्वित्वत्वेन हेतुना तादशद्वित्वत्वरूपपक्षतावच्छेदकावच्छेदेनाधेयतानवच्छेदकत्वसाधने सङ्कीर्णजातिनिराकरणं स्फुटमेव, सङ्कीर्णजानियसत्त्वे तत्तिद्वित्वस्याधेयतानवच्छेदकत्वयाघातात् । मिथोव्यभिचारिजात्योः मामानाधिकरण्याविरहनियमवत् मिथःसमानाधिकरणजात्योमिथाव्यभिचाराभावनियमादपि सकीर्णजातिखण्डननिर्वाहासाशनियमावधारणमप्याह । समानाधिकरणेति । आधेयतावच्छेदकजातिपर्याप्तद्वित्वे मिथोव्यभिचारिद्रयापर्याप्तत्वस्यावधारणादित्यर्थः। मिथोव्यभिचारिद्वयापर्याप्तत्वं च स्वाश्रयव्यापकावृत्ति ययस्वं तदन्यत्वमा व्यापकत्वं भेदगर्भम् । सामानाधिकरण्यसम्बन्धेन प्रतियोगिदयविशिष्टो योऽत्यन्ताभावस्तत्प्रतियोगितानवच्छेदकत्वं वा। शालित्वादिजाति विशिष्य निवेश्य तदव्यापकतव्यभिचारिजातिवादेस्तसामानाधिकरण्याभावादिनियमकल्पनयापि शालित्वादिसङ्कीर्णकुदूपत्वनिराकरणसम्भवाचादशनियमानपि दर्शयति । विशेषत इति । श्याप्यदल एव तत्सामानाधिकरण्यं प्रवेश्य नियमप्रविष्टव्यभिचारस्याभावे व्यापकत्वावधारणाद्व्याप्यादिशि जानित्वमप्रबेध व्यापकाभावप्रतियोगिशरीरे तन्निवेश्य नियमकल्पनयापि समाहित निर्वाहाच तत्रि