________________
टिप्पणीसमलङ्कतदीधिति-कल्पलताख्यटीकाद्वयविभूषितः। ९३
__दीधितिः। रोधे प्रतिक्षेप्यप्रतिक्षेपकभावो विरोधे चावश्यं सङ्ग्राह्यसङ्ग्राहकभावः, लाघवेन सामान्यत एव मिथोव्यभिचारिजात्योः सा. मानाधिकरण्यविरहस्य समानाधिकरणजात्योश्च मिथोव्यभिचार(१)विरहस्य विशेषतश्च तज्जातिसमानाधिकरणाभाव(२). प्रतियोगिन्यास्तदभावसमानाधिकरणायाश्च(३) जातेस्तत्सामानाधिकरण्याभावस्य तज्जातिसमानाधिकरणाभावप्रतियोगितत्समानाधिकरणजातेस्तदभाव(४)सामानाधिकरण्याभावस्य तादृशसमानाधिकरणधर्मस्य वा तदभावसमानाधिकरण(५)जातिवाभावस्य(३) तत्समानशील(७)नियमानां चावधारणा.
दीधितिटिप्पणी। अधिरोधेकथं सङ्ग्राह्य सङ्ग्राहकभावः, भूतत्वमूर्तत्वयोरतथाभावादतो जातित्वविशेषणदानेनाह । लाघवेनेति । निखिलषष्ठयन्तस्यावधार. णादित्यनेनान्वयः, आधे प्रतिक्षेप्यप्रतिक्षेपकभावप्रदर्शनं, द्वितीये सङ्ग्राह्यसवाहकभावप्रदर्शनम् , एवं विशेषत इत्यत्रापि बोध्यम् , लाघवेनेति सर्वत्र हेतुः, भवता गोत्वाश्वत्वादौ तथावधारणेन कस्याश्चिजातिसमानाधिकरणाभावप्रतियोगिन्यास्तदभावसमाना. धिकरणजातेस्तत्सामानाधिकरण्याभावः कल्पनीयः, तादृश्या: कस्याश्चित् तत्सामानाधिकरण्यं कल्पनीयं, मया पुनस्तादृशजातित्वावच्छेदेन तत्सामानाधिकरण्याभावमात्र कल्प्यते, ममैव कल्पनालाघवमित्यर्थः । ननु यादृशजातेाप्यजाति स्ति, तत्र जातिसार ये न बाधकमायातमित्यत आह । ताशसमानाधिकरणेति।तजाति. समानाधिकरणाभावप्रतियोगितत्समानाधिकरणस्येत्यर्थः । तत्स. मशीलानामिति । तादृशममानाधिकरणतदभावसमानाधिकरणध.
(१) व्यभिचारि-पा० २ पु० । (२)धिकरणात्यन्ताभाव-पाठः । (१) याश्च कलि० मु.पु. पा०। (४) तदभावा-कलि० मु० पु० पा०। (५) धिकरणस्य-पाठः। (९) भावस्यैव-कलि. मु. पु० पा० । (.) तत्समशीलाना-इति पाठष्टिप्पणीकृन्मतः।