________________
१३६
· जैनतत्त्वप्रदीप
देवास्तु अत्यन्तरतमुखासक्तंत्वाद् मनुष्यलोके व का. भावांद दुःखानुभावाच दर्शनगोचरं न आयान्ति, नारकास्तु तीव्रवेदनार्त्ताः पूर्वकृत कर्मोदय निगढबन्धनवशीक तत्वादस्वतन्त्राः कथमायान्तीत्येवमालोचयतोऽदर्शन परीपहजयो भवेत् ।
एते परीषदा ज्ञानावरणवेदनीयदर्शनचारित्रमोहनीयान्तरायलक्षणानां पञ्चानां कर्मप्रकृतीनामुदयेन प्रादुर्भवन्ति ।
तेषां च परपहाणां मध्ये क्षुत्पिपासाशीतोष्णदंशमशकचर्याऽलाभमज्ञाज्ञानशय्यावध रोग तृणस्पर्शमल लक्षणाचतुर्दश परीषहाः सूक्ष्म संपरायस्य छद्मस्थवीतरागयतेश्व भवन्ति ।
तत्र संपरायो नाम लोभाख्यः कषायः, तस्य वादरखण्डानि परिशाटितानि, नवमे गुणस्थाने दशमे गुणस्थाने च सूक्ष्मलोभपरमाणवो विद्यन्ते ।
1
❤
त्रा
तथा च सूक्ष्मः सपरायो यस्यासौ सूक्ष्मसंपरायः शमकः क्षपको वा संयतस्तस्य सूक्ष्ममंपराययतेः छद्म आव' रणं, तत्र स्थिताः छद्मस्थाः सावरणज्ञाना इत्यर्थः । वीतांsपेतो रागः सकलमोडोपशमात् समस्त मोहक्षयाच्च यस्यासौ वीतरागः क्रमेणैकादशगुणस्थानवत्र्त्ती द्वादशगुणस्थानवर्त्ती च संयतौ ग्राह्यौ । एवं च दशमैकादशद्वादशगुणस्थानवचिंषु संयतेषु पूर्वोक्ताथतुर्देश परीषदा भवन्ति ।
1