________________
पञ्चमोऽधिकारः ।
स च सैंवरो गुप्ति-समिति-धर्मानुप्रेक्षा-परिपह-जयचारित्रलक्षणोपायैर्भवतीति तेषां स्वरूपं प्रतिपाद्यते
रागद्वेपपरिणतिजन्यार्त्तरौद्रध्यानाध्यवसायाद् मनोनिवृत्यपरित्यक्तैहिकामुष्पिकविषयाभिलाषस्य मनोगुप्तत्वादेव कर्म निरुध्यते । सम्यग्दर्शनज्ञानपूर्वकत्रिविधयोगस्य शास्त्रोक्त विधिस्वाधीन मार्गव्यवस्थापन रूपत्वं गुप्तिसामान्यस्य
ना
लक्षणम् ।
१२३
सा च त्रेधा, मनोवाक्कायगुप्तिभेदात् ।
समस्त कल्पना जालपरित्यागपूर्वकत्वे सति समत्वे. * सुप्रतिष्ठितस्य मनसः यदात्मरमणतारूपत्वं, कुशलाकुशलसंकल्पनिरोधरूपत्वं वा मनोगुप्तेर्लक्षणम् ।
वाचनमच्छनप्रश्नव्याकरणादिष्वपि सर्वथा वाग्निरोंरूपत्वं सर्वथा भाषानिरोधरूपत्वं वा वाग्गुप्लेक्षणम् । शयनासननिक्षेपस्थानचङ्क्रमणादिषु कायचेष्टानियमरूपत्वं कायगुप्तेर्लक्षणम् ।
* तत्र कुशल संकल्पानुष्ठानं सरागसंयमादिलक्षणं, अकुशलं तद्विपरीतरूपम्, कुशले सरागसंयमादौ प्रवृत्तेः सद्भावेऽपि अकुशले संसारहेतावभावादेव मनोगुप्तिः | योगनिरोधावस्थायां तु सर्वथाभावादेव मनोगुप्तिः, तत्काले सर्वकर्मक्षयार्थ एवात्मन: परिणामो भवति ।
•