________________
१२२
जैनतत्त्वप्रदीपे
पञ्चमोऽधिकारः ।
अथा पूर्वपुद्गलादानोच्छेदनिमित्तभूतसंवरतत्वं लक्ष
णविधानाभ्यां प्रतिपाद्यते -
आश्रवनिरोधनिमित्तकत्वं संवरस्य लक्षणम् ।
सद्वेधा, द्रव्यं भावभेदात् । कर्मपुलादानोच्छेदपरिमाणरूपत्वं द्रव्यसंवरस्य
ब्लक्षणम् ।
भवहेतुक्रियात्यागलक्षणपरिणामरूपत्वं भाव संवरस्य
लक्षणम् ।
तत्राश्रवः कर्मप्रदेशविचयाः शुभाशुभलक्षणाः कायांदयस्त्रय इन्द्रियकषायावतक्रियाः पञ्चचतुष्पञ्चपञ्चविंशतिसंख्याकाः, तेषां निरोधो निवारणं संवरः स्मृतः । कर्मोपादन हेतु भूतपरिणामाभावरूपत्वमिति फलितलक्षणं संवरस्य ।
स च पुनर्देवा, सर्वदेश मेदात् ।
तत्र सूक्ष्मबादरयोगनिरोधकाले सर्वसंवरः, शेषकाले चारित्रप्रतिपत्तेरारभ्य देशसंवरपरिणतिभागात्मा भवति ।
अयं भावः- सामायिकादिचारित्रवतां परिस्पन्दवच्चेसत्यपि विदिततत्त्वानां संसारसमुद्रं तरीतुमभिवाच्छतां प्रधान संवराभावेऽपि न्यस्तसमस्तप्रमादस्थानानां देशसंवरः खल्लु समस्त्येवेति प्रतिपादनाय मोच्यते