________________
चतुर्थोऽधिकारः।
६७ चक्षुरवधिकेवलदर्शन-निद्रा निद्रानिद्रा-प्रचला-प्रचलामचला-स्त्यानदिभेदात् । एवं रीत्योत्तरोत्तरं वक्ष्यते। . . ____ अथ च प्रथमतः क्रमप्राप्तं पञ्चविध ज्ञानावरणं प्रतिपाद्यते--
सामान्यविशेषात्मकवस्तुनो 'विशेषाववोधरूपत्वं ज्ञा. 'नस्य लक्षणम् ।
'तच ज्ञस्वभावस्थात्मन: प्रकाशरूपस्य ज्ञानावरणक्षयोपशमक्षय समुद्भवः प्रकाशविशेपो भतिज्ञानादिव्यपदेशभाग् भवति । तस्यावारकं कर्म ज्ञानावरणनामधेयं भवति । ___• अष्टाविंशतिभेदभिन्नं मतिज्ञानं येनाऽऽवियते तन्मतिज्ञानावरणं देशघाति, लोचनपटवत् ।
श्रोत्रोपलब्धिरूपश्रुतज्ञानं येनाऽऽत्रियते तच्छुतज्ञाना. चरणम्, वदापि देशघाति भवति ।
इन्द्रियाऽनिन्द्रियनिरपेक्षत्वे सति आत्मनोऽवधिज्ञानावरणक्षयोपशमजन्यपुद्गलविषयकप्रकाशाविर्भावरूपमवविज्ञानं येनाऽऽत्रियते तदवधिज्ञानावरणम् ; तदपि देशघाति।
साक्षादात्मनो मनोद्रव्यपर्यायान् निमित्तीकृत्य मनुप्यक्षेत्राभ्यन्तरवर्तिसंज्ञिपञ्चन्द्रियमनोग्राहिप्रकाशविशेषरूपं मनःपर्यायज्ञानं येनाऽऽत्रियते तन्मनःपर्यायज्ञानावरणम् , तदपि देशघाति । ।