________________
जैनतत्त्वप्रदीपे -
चारित्रमोहोदये सति आत्मनः कुटिकरूपत्वं तैर्य
ग्योनाश्रवस्य लक्षणम् ।
तथा च मिथ्यात्वावष्टम्भा धर्मदेशनापरिग्रह कूटकर्मनीलका पोत लेश्या परिणामात्र्त्तध्यानोन्मार्गप्रज्ञापनमार्गनाशनसातिचार व्रतशीलतावसुधाराजितुल्यक्रोधादिकं कुर्वन् जीवस्तैर्यग्योनस्यायुर्वध्नाति ।
स्वभावमार्दवार्जवा ल्पेच्छारम्भादिकरणरूपत्वं मातुपायुराश्रवस्य लक्षणम् ।
तथा च वालुका राजिसदृशक पायतास्वभावमधुरतालोकयात्रोदासीनता देवतागुरुपूजनशीलतातिथिसंविभागताकापोता दिलेश्या परिणामधर्मध्यानादिकं कुर्वाणो जीवो मानुषायुर्वभाति ।
निःशीलव्रतरूपता सर्वेषां नारकतैर्यग्मानुषायुषामानवकारणं भवति । अयं निष्कर्ष:- निःशीचत्रतत्वं देवायुषः कारणं न भवति, शीलव्रतवतां देवेषूत्पादादित्यन्यत्रोक्तत्वात् ।
सरागसंयमसंयमासंयमाकामनिर्जरावालतपःशील
६२
•
व्रतादीनां मध्येऽन्यतमकरणरूपत्वं देवायुराश्रवस्य लक्षणम् । संज्वलन लोभलक्षणरागसहवर्त्तित्वे सति सावद्ययोगविरतिरूपत्वं सरागसंयमस्य लक्षणम् ।
1
देशतः प्राणातिपातादिभ्यो निर्वृत्तिरूपत्वं संयमासं