________________
जैनतत्त्वप्रदीपेअवधिज्ञानावरणक्षयोपशमादिहेतुसांनिध्ये सति आ. स्मनः साक्षाद् रूपिपदार्थपरिच्छेदकरूपत्वम्, आत्मनो रूपिपदार्थमात्रसाक्षात्कारकरणव्यापारविशेषरूपत्वं वाचा धिज्ञानस्य लक्षणम् ।
मनोरूपेण परिणतद्रव्याणां परिच्छेदकत्वम्, सर्वतो. भावेन मनोद्रव्यपरिच्छेदकत्वं वा मन:पर्यायज्ञानस्य लक्ष. णम् । मनःपर्याप्तिनामकर्मोदये सत्ति मनोयोग्यवर्गणादलि. कानि गृहीत्वा जीवेन मनस्त्वेन परिणतानि यानि द्रव्याणि तद्रूपत्वं द्रव्यमनसः, द्रव्यमनआलम्बनत्वे सति जीवस्य मननव्यापाररूपत्वं भावमनसश्च लक्षणम् ।
तच मन:पर्यायज्ञानं द्विविधम् ऋजु-विपुलमतिमन:पर्यायभेदात् । तत्र सामान्याकाराध्यवसायनिवन्धनीभू. तकतिपयपर्यायविशिष्टमनोद्रव्यपरिच्छेदकत्वमृजुमतिमन:: पर्यायस्य लक्षणम् । विशेषाकाराध्यवसायनिबन्धनीभूतम. भूताप्रभूतविशेषविशिष्टमनोद्रव्यपरिच्छेदकत्वं विपुलमतिमन:पर्यायस्य लक्षणम् ।
सर्वद्रव्य-पर्यायसाक्षात्कारकारित्वं केवलज्ञानस्य लक्षणम्, सकलवस्तुस्तोमपरिच्छेदकत्वं वा।
॥ प्रतिपादितमुपयोगस्वरूपद्वारा प्रमाणस्वरूपम् ॥
पूर्वोक्त उपयोगो द्विविधा, साकार-निराकारभेदात् । तत्र साकारः सविकल्परूप; निराकारो निर्विकल्परूपः । साकारश्चाष्टविधः, पूर्वोक्तज्ञानपश्चकाज्ञानत्रय भेदात् ।