________________
जैनसिद्धान्तकौमुदी
इणस्समीनामएः । ४ । ३ । ७१ ॥ आदिदुद्भयः परेषामेषां विभक्तीनामए इत्यादेशः स्यात् स्त्रियाम् । मालाए । मालाहिं, मालाहि । मालाए । मालाणं । मालाओ मालाहिन्तो। मालाए । मालाणं । मालाए । मालासु
इणस्समीति-आदिदुद्भयः स्त्रियामिति पदद्वयमनुवर्तते । अनेकवर्णत्वात्सर्वादेशः । माला + इण इत्य त्रानेन 'अए' इत्यादेशे पूर्वसवर्णदीधै प्रकृतिभावे मालाए । माला । इहि इत्यत्रेणाणेहीसीसूनामिति सूत्रेण बैकल्पिके ममागमेऽनुस्वारे पूर्वसवर्णदीर्घ मालाहिं, ममागमाभावे मालाहि । माला+अए इत्यत्र पूर्वसवर्णदीचे प्रकृतिभावे मालाए । माला+अण इत्यत्र ममागमेऽनुस्वारे पूर्वसवर्णदीधैं मालाणं ॥ माला+अतोदित्यत्र पूर्वसवर्णदीघे तकारस्थ यकारे लोपे प्रकृतिभावे च मालाओ । माला इहितो इत्यत्र पूर्वसवर्णदीचे मालाहितो। माला+स्स इत्यत्रानेन सूत्रेण स्सस्याए इत्यादेशे पूर्वसवर्णदीर्घ प्रकृतिभावे मालाए । अत्र माला स्स इति दशायां 'संयुक्त' इति सूत्रेण हस्वस्तु न भवति, 'निमित्तं विनाशोन्मुखं दृष्ट्वा तत्प्रयुक्त कार्य न कुर्वन्ति' इति परिभाषया स्सकारस्य विनाशभावित्वेन तन्निमित्तकहस्वाप्रवृत्तेः । मालाणं पूर्ववत् ॥ माला मि इत्यत्रानेन सूत्रेण मेः 'अए' इत्यादेशे पूर्वसवर्णदीचे प्रकृतिभावे मालाए । माला + इसु इत्यत्र पूर्वसवर्णदीघे मालासु ॥
__ आतो डे: । ४ । ३ । १० ॥ श्राकारान्तानाम्नः परस्यामन्त्रणैकवचनम्य डे इत्यादेशो वा स्यात् । भो माले ! माला ।
आन इति-धा, उतः, मामन्त्रणे, नाम्न इत्येतेषामनुकृत्तिः । माला+3 इत्यत्रानेनोकारस्य 'डे' इत्यावेशे डिवादाकारस्य लोपे भो माले !, पक्षे पूर्वसवर्णदीर्घ माला ! । बहुवचने प्रथमाबहुवचनवत् ।।
अम्माया डोश्च । ४।३।११॥ अम्मा शब्दात्परस्यामन्त्रणैकवचनस्य डो इत्यादेशो वा स्यात् । भो अम्मो ! भो अम्मे !
भो अम्मा !।. अभ्मेति-आमन्त्रणे उतः वा इति पदत्रयमनुवर्तते । अम्मा+उ इत्यत्रानेनोकारस्य डो इत्यादेशे डित्त्वाहिलोपे भो अम्मो !, डे इत्यादेशे भो अम्मे ! आदेशाभावपक्षेतु पूर्वसवर्णदीर्घे भो अम्मा !! शेषं मालावत् ॥
मिमातोऽणस्य । ४ । ३ । ६० ।। आकारान्तसव्वणामशब्दात् परस्याणस्य सिमादेशः स्यात् । सव्वासि ॥ षष्ठी बहुवचनेऽ
___प्येवमेव ॥ शेष मालावत् ॥ सिमान इति-विशेषणन्तदन्तस्येत्यनेनाकारान्तादिति लाभः । सव्वणामात् इति पदमनुवर्तते । भनेकवर्णत्वात्सर्यादेशः । सव्वा+भण इत्यत्रानेन सूत्रेण सिमादेशेऽनुस्वारे सव्वासि ॥ शेषमिति सव्वा ।