SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ जैनसिद्धान्तकौमुद्री . . सम इति-तुम्हस्येति वेति चानुवर्तते । म सहितः सम् तस्येति समासः तुम्ह + म् इत्यत्रानेन प्रकृतिप्रत्यययोरुभयोः 'ते' इत्यादेशे ते, पक्षे ते इत्यादेशाभाव इत्यर्थः । . मिमोस्तुम्हस्य हस्य । ३ । ४ । ५७॥ मिप्रत्यये म्प्रत्यये च परे तुम्हसम्बन्धिहकारस्य लोपः स्यात् । तुमं । तुम्भे, तुज्झे, तुम्हे ।' मिमोरिति-लोप, इत्यनुवर्तते । मिमोरिति सप्तम्यन्तम् । तुम्हन म् इत्यत्रानेन हकारस्य लोपेऽ नुस्वारे तुमं । तुम्ह + इ इत्यत्र 'बहुवचनेषु तुव्भतुज्झो वा' इतिसूत्रेण तुम्भादेशे वृद्धौ तुन्भे तुज्झादशपक्षे तुज्झे पक्षे तुम्हे ।। सेणस्य तुमः। ४ । ३ । १२ ॥ इणप्रत्ययसहितस्य तुम्हशब्दस्य तुमे इत्यादेशः स्यात् । तुमे । तुम्भेहि, तुज्झहि, तुम्हेहि, तुम्भेहि, तुज्झहि; तुम्हेहि । सेणस्येति-इणेन सहितः सेणस्तस्येति विग्रहः । तुम्हस्येत्यनुवर्तते । तुम्ह +इण इत्यत्रानेनेणसहितस्य तुम्हस्य ते इत्यादेशे तुमे। तुम्ह + इहि इत्यत्र 'वहुवचनेषु तुम्भतुझौ वा' इतिसूत्रेण तुब्भादेश 'इणणेहीसीसूनामिति' सूत्रेण ममागमेऽनुस्वारे वृद्धौ तुम्भेहिं, ममागमाभावे तुम्भेहि, तुझादेशे तुझेहिं, तुज्झहि, आदेशाभावपक्षेतु तुम्हेहि, तुम्हेहि ॥ सातोतस्तुमाहितोः । ४ । ३ । ६४ ॥ अतोत्प्रत्ययसहितस्य तुम्हशब्दस्य 'तुमाहितो' इत्यादेशः स्यात् । तुमाहिन्तो । तुन्भेहितो तुज्झहिन्तो, तुम्हेहिंतो । सातोत इति-अतोता सह वर्तते सातोत्तस्येति वहुव्रीहिः । तुम्हस्येत्यनुवर्तते । तुम्ह+रतोदित्यत्रानेन प्रकृतिप्रत्ययसमुदायस्य तुमाहितो इत्यादेशे तुमाहितो । तुम्ह इहिंतो इति स्थिते तुम्भादेशे वृद्धौ तुन्भेहितो, तुज्झादेशे तुझेहितो, एतदभावे वृद्धौ तुम्हेहितो।। ___ सस्सस्य तेतवतुझंतुमं तुहंतुसंतुज्झाः । ४।३ । ६३ ।। स्सप्रत्ययसहितस्य तुम्हशब्दस्यैत आदेशाः पर्यायेण स्युः । ते, तब, तुझ, तुम, तुहं, तुम्भ, तुज्झ । सस्सस्यीत-स्सेन सहितः सरसस्तस्येति समासः । तुम्हस्येत्यनुवर्तते। तुम्हस्स इत्यवस्थायां स्ससहितस्य तुम्हस्यानेन सूत्रेण ते इत्यादेशे ते, एवं तव तुज्झमित्यादिकमपि बोध्यम् । चतुर्थ्येकवचनेऽ येताशमेव "एतःस्सो नाम्नः" इत्यत्र बहलमित्यनवर्तनान्नित्यमेवात्र प्रवत्तौ तमाए इत्यादेरसम्भवात् ।।
SR No.010021
Book TitleJain Siddhanta Kaumudi Purvardha
Original Sutra AuthorN/A
AuthorRatnachandra Maharaj
PublisherNagrajji Nahar Jaipur
Publication Year
Total Pages77
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy