________________
जैनसिद्धान्तकौमुदी
सेहेर्नेः । ४।३।८४॥ इहिप्रत्ययसहितस्याम्हशब्दस्य ने इत्यादेशो वा स्यात् । णे, अम्हेहिं, अम्हेहि ॥
सेहेरिति-अम्हस्य, वा, इतिद्वयोरनुवृत्तिः । इहिसहितः सेहिस्तस्येति वहुव्रीहिः। अम्ह + इहि इत्यत्रानेनेहिसहितस्याम्हशब्दस्य ने इत्यादेशे णत्वे णे; पक्षे वृद्धौ वैकल्पिके ममागमेऽनुस्वारेऽम्हेहि, ममागमाभावेऽ म्हेहि । दिटुं चाणे सुयंच णे । आचा०।१।४।२॥
सातोतो समाप्रोममाहितावौ। ४ ।३। ८०॥ पञ्चम्येकवचनसहितस्याम्हशब्दस्य ममाओ ममाहितो इत्येतावादेशौ पर्यायेण स्याताम् ।
___ममाओ, ममाहितो । अम्हेहितो । सातोत इति-अम्हस्येत्यनुवर्तते । अतोता सह सातोत् तस्येति वहुव्रीहिः ममाओश्च ममाहितोश्चेति द्वन्द्वः । अम्ह + अतोदित्यत्रानेन सूत्रेणातोत्सहितस्याम्हशब्दस्य स्थाने ममाओ इत्यादेशे प्रकृतिभावे ममाओ, पक्षे ममाहिती इत्यादेशे ममाहितो । अम्ह + इहिंतो इत्यत्र वृद्धौ अम्हेहितो । बहुलप्रहणान्न सर्वत्र तकारस्य यकारः॥
सस्सस्य मेमममममझमहंमोमज्झाः । ४ । ३ । ७६ ॥ स्सप्रत्ययसाहितस्याम्हशब्दस्य मे मम ममं मज्झं महं मो मज्झ इत्येते आदेशाः स्युः पर्या
येण । मे, मम, ममं, मझ, महं, मो, मझ। सस्सस्येति-अम्हस्येत्यनुवर्तते।स्सेन सह सस्सस्तस्येति विग्रहः। मेश्च ममश्चममञ्च मन्मश्च महश्च मोश्च मन्मश्चेति द्वन्द्वः । अम्ह + स्स इत्यन्न प्रकृतिप्रत्यययोरुभयोःस्थानेऽनेन सूत्रेण मे इत्यादेशेमे, ममादेशे मम, मममादेशेऽ नुस्वारे मम, मन्ममादेशे नुस्वारे मझ,महमादेशेऽनुस्वारे मह, मो इत्यादेशे मो, मज्मादेशे मज्म ।
अम्हं साणस्य । ४।३।८५॥ ___अणसहितस्याम्हशब्दस्याम्हमादेशो वा स्यात् । अहं ।
अम्हमिति-श्रणेन सह साणस्तस्येति बहुव्रीहिः । अम्हस्य, वेति द्वयोरनुवृत्तिः । अम्ह + अंण ' इत्यत्रानेन प्रकृतिप्रत्यययोरुभयोःस्थाने 'अम्हमि' त्यादेशेऽनुस्वारे अम्हं।
नेनवस्साकमः । ४ । ३ । ८६॥ अणसहितस्याम्हशब्दस्य ने, नो, अस्साकमित्येत आदेशा वा स्युः । णे, ने, णो, नो,अस्साक,
अम्हाणं । नेनवेति-साणस्य, अम्हस्य, वेति पदन्नयमनुवर्तते । अम्हमण । इत्यत्रानेन ने इत्यादेशे णत्वे णे,