________________
सचणामशब्दा
लोपे वृद्धौ प्रकृतिभावे एए । से:स्सिमिति रिसमादेशे तकारस्य यकारे एयसि । एत + इसु इत्यत्र वृद्धौ राकारस्य यफारे लोपे प्रकृतिभावे एएसु ॥
अम्हस्य महमो सोतः । ४ । ३ । ७६ ॥ उप्रत्ययसहितस्याम्हशब्दस्य ह अहमित्यादेशौ पर्यायेण स्याताम् । हं, अहं ।
अम्हत्येति-उता सह वर्तमानः सोत् तस्येति वहुव्रीहिः । अम्हशब्दस्यानेन हमादेशेऽनुस्वारे हं, अहमादशे अहं।
• वा सातो वयम् । ४।३।८२ ॥ ____ अप्रत्ययसहितस्याम्हशब्दस्य वयमित्यादेशो वा स्यात् । वयं, अम्हं ॥
जागति-अम्हस्येत्यनुवर्तते । अता सह वर्तमानः सात् तस्येति बहुव्रीहिः । अम्ह + अ इत्यत्रानेन प्रकृतिप्रत्यययोरुभयोः स्थाने वयमादेशेऽनुस्वारे वयं; पक्षे 'इ.. सब्वणामादतः' इति सूत्रेणाकारस्येकारे वृद्धो अम्हे ।।
समो नेमंगलमलमः । ४।३।७७ ॥ मप्रत्ययसहिनस्याम्हशब्दस्य मे, मं, मम, ममम् इत्येते आदेशाः पर्यायेण स्युः । मे, में,
मम ममम् ।। सम इति-अम्हस्येत्यनुवर्तते । मकारेण सह वर्तमानः सम तस्येति बहुव्रीहिः । अम्ह + म् इत्यत्रानेन प्रकृतिप्रत्यययोरुभयोः स्थाने मे इत्यादेशे मे, तदभावे 'म' इत्यादेशे मं, तदभावे 'मम' इत्यादेशे मम, एतदा भावे मममित्यादेशेऽनुस्वारे ममं ॥ एवं रूपचतुष्टयम् ॥
सेतो नेनाचौ । ४।३। ८३ ॥ द्वितीयाबहुवचनसहितस्याम्हशब्दस्य ने नो इत्यादेशौ वा स्याताम् । णे; ने, णो, नो, अम्हे ।
सेतो नेनेति-अम्हस्य, वा, इतिपदद्वयमनुवर्तते । इता सह सेत् तस्येति बहुव्रीहिः । अम्ह + इ इत्यत्रानेन प्रकृतिप्रत्यययोरुभयोः स्थाने ने, इत्यादेशे णत्वे णे, णत्वाभावे. ने, एवं णो, नो, पक्षे वृद्धौ अम्हे-।। .
सेणस्य मेमएभयाः । ४ । ३ । ७८ ॥ इणप्रत्ययसहितस्याम्हशब्दस्य मे, मए, मया इत्येत आदेशाः पर्यायेण स्युः । मे, मए, मया ।
नेणस्यनि-अम्हस्येत्यनुवर्तते । इणेन सह वर्तमानः सेणस्तस्येति बहुव्रीहिः । मेश्च, मएश्च मयाश्चेति द्वन्द्वः । अम्ह + इण इत्यत्रेणसहितस्याम्हशब्दम्य स्थानेऽनेन सूत्रेण मे इत्यादेशे मे, मए इत्यादेशे प्रकृतिभावे मए, मया इत्यादेशे मया ।