________________
सव्वणामशब्दा इमस्येति-उता सह+सोत् सस्य सोत इत्यर्थः । वेत्यनुवर्तते । इम+8 इत्यन्न प्रकृतिप्रत्यययोरुभयोः स्थानेऽयमित्यादेशे अयम् , पक्षे 'इदुतः पुंस्यत' इत्यनेनेकारादेशे वृद्धौ इमे ।
इमस्य मोर्णट् । ४।२।५॥ . इमसम्बन्धिनो 'मो' इत्यस्य णडागमो वा स्यात् । इणमो, इमो । इमे । इमस्येति-चेत्यनुवर्तते । इम । उ इत्यत्रे काराभावे वृद्धौ 'इमो' इति स्थितेऽनेन सूत्रेण मो इत्यस्य णडागमे रित्वादाद्यवयवे इणमा, णडागमाभाव इमो । इणमो इत्यत्र "जंबू ! इणमो अण्हयसंवरविणिच्छय पवयणस्स निस्संद" इति पण्ह० १, १; प्रमाणमस्ति । इम + अ इति स्थिते 'इ: सव्वणामादत' इत्यनेनाकारस्येकारादेशे वृद्धावेकारे इमे।
मस्य णो मि । ४ । ३ । २७ ॥ इम शब्दसम्बन्धिमकारस्य णकारादेशो वा स्यान्मप्रत्यये परे । इणं, इमं । इमे । मस्येति- इमस्येति वेति चानुवर्तते । इम + म् इत्यत्रानेन मकारस्य णकारेऽनुस्वारे इणं,पक्षे इमं । इणमित्यत्र "गोयमो इणमन्यमी । उत्त० २३ । ३१ ॥ इणमक्खेवं पुच्छे, भग० २ । १, इति प्रमाणमस्ति । इमे ।। पूर्ववत् ।
अस्त्रियामिणेऽणः । ४ । ३ ।२८ ॥ . इमशब्दस्याणादेशो वा स्यादिणप्रत्यये परेऽस्त्रियाम् । अणेण, इमेणं, इमेण । इमेहि,
इमेहि । इमस्स, इमाए । इमेसि, इमेसि । इमा, इमाओ । इमेहिन्तो । इमस्येति-इमस्येत्यनुवर्तते अनेकवर्णत्वात्सर्वादेशः । इम + इण इत्यवस्थायामनेनेमस्याणादेशे वृद्धौ श्रणेण, पक्षे वृद्धौ वैकल्पिके ममागमे च कृते ऽनुस्वारे इमेणं, ममागमाभावपक्षे इमेण । इम + इहि अत्र ममागमे वृद्धी इमेहि, ममागमाभावे इमेहि ॥ इम X अए इत्यत्राएतः स्सोनाम्न, इत्यनेन स्सादेशे इमस्स, स्सादेशाभावे तु पूर्वसवर्णदीर्घ प्रकृतिभावे इमाए । शxण इत्यत्राणस्येसिरस्त्रियामिति सूत्रेण 'इसिरित्यादेशे 'इणाणेहीसीसूनाम् , इति विकल्पेन ममागमेऽनुस्वारे 'अतः स्वरे परस्य सवर्ण इत्यनेन वृद्धौ इमेसि ममागमाभावे इमेसि ॥ इमxअतोदित्यत्रातोतोऽत,इति सूत्रेणौकारस्य लोपे तकारस्य यकारे लोपे पूर्वसवर्णदीचे इमा, पक्षे पूर्वसवर्णदीपें तस्य यत्वे यलोपे प्रकृतिभावे इमाओ । इम इहिंतोइत्यत्र वृद्धौ इमेहितो ॥
. सिस्सयोरस् । ४ । ३ । २६ ॥ इमशब्दस्यासादेशो वा स्यात् स्सिस्सयोः परयोरस्त्रियाम् । अस्स, इमस्स । इमेसि, इमेसि ।