________________
जैनसिद्धान्तकौमुदी जेसि ॥ १० ॥ जेहिंतो ॥ पं० बहु० ॥ जस्स । जेसिं, जेसि, ॥ १० ॥ जसि, जमि, जे, जस्ति । जेसु ।। स० ॥ शेषं सव्वशब्दवदित्यत्र जशब्दस्येति शेषः । तादिशब्देषु विशेषरूपार्णा मूल एव । दर्शितत्वात् ।
उत्येततयोरक्लाबे सः ।२।३ । ७८ ॥ एततशब्दयोरुपधायाः प्रथमैकवचने परे सकारादेशः स्यादक्लीवे । उत्येतेति-उपधाया इत्यनुवर्तते । उति, एतयोः , अक्लीवे, स, इति पदचतुष्टयम् । एतश्च तश्चेति द्वन्द्वः अन्यवचने परे क्लीवे च सकाराभावादुतीति अक्लीवे इति चोक्तम् । सकारोत्तराकार उच्चारणार्थः ।
एतताभ्यां पुंसि वा । ३ । ४ । ७० ॥ आभ्यां परस्य प्रथमैकवचनस्य लोपो वा स्यात्पुंसि । स, से, सो । ते । एतताभ्यामिति-उत इति लोप इति द्वयोरनुवृत्तिः । त + उ-इत्यत्रोत्येततयोरक्लीवे स इत्यनेन तकारस्य सकारेऽनेन विभक्तोंपे स, लोपाभावे 'इदुतः पुंस्यत्' इति सूत्रेणोकारस्येकारे वृद्धौ से, तदभावे वृद्धौ सो। ते । तं । ते ॥ तेणं, तेण । तेहिं, तेहि । तस्स, ताए । तेसिं, तेसि । त+अतोदित्यत्र 'जतकेभ्योऽतोतो वा म्हा' इति विभक्तम्हादेशे तम्हा, एतदभावेऽतोतोऽत इति सूत्रेणौकारस्य लोपे तकारस्य यकारे यलोपे पूर्वसवर्णदीधैं च ता, पक्षे पूर्वसवर्णदीधे तस्य यत्वे लोपे प्रकृतिभावे ताओ । तेहितो।।
तस्य सस्स्सय सेः। ४।३ । ७२ ॥ . तशब्दस्य षष्ठयेकवचनस्ससहितस्य 'से' इत्यादेशो वा स्यात् । से, तस्स । तेसिं, तेसि ।
शेषं जशब्दवत् । - तस्येति-सेन सहितः सस्सस्तस्येत्यर्थः । वेत्यनुवर्तते । षष्ठथेकवचन एवायमादेशो नतु चतुर्थ्यामप्यनभिधानात्तदाह पष्ठयेकवचनेति । त+ स्सेत्यत्रानेन प्रकृतिप्रत्ययोरुभयोः स्थाने 'से' इत्यादेशे से, तस्येत्यर्थः । पक्ष तकारस्य स्सादेशे तस्स । तेसिं, तेसि । तसि, तमि, ते तस्सि । तेसु । के, को । के। कं । के । केणं, फेण । हिं, केहि । कस्स, काए । केसि, केसि । कम्हा, का, काओ ॥
: __ कादिहिन्तोरितो डोः । ४ । ३ । ३३ ॥ 'कशब्दात्परस्येहितोप्रत्ययस्यादे'ओ' इत्यादेशः स्यादस्त्रियाम् । कोहितो । शेषं जशब्दवत् । ___ कादीति-कात्, इहिंतोः, इतः, डओरिति पदचतुष्टयम् । अस्त्रियामित्यनुवर्तते । क + इहिंतोऽत्रानेन विभफेरादेरिकारस्य 'डओ' इत्यादेशे डलोपे डित्त्वाहिलोपे प्रकृतिभावे कओहितो । कस्स । केसि, फेसि । इत्यादि ।
इमस्य सोतः पुंस्ययम् । ४।३ । २४ ॥ . इमशब्दस्योप्रत्ययसहितस्यायमित्यादेशो वा स्यात्पुंसि । अयं, इमे ।। ..