________________
विभक्तिप्रकरणम्
UH.
अट्ठादतोऽः । ४ । ३ । ६५ ॥ अट्ठशब्दात्परस्याएत्प्रत्पयस्यासादेशो वा स्यात् । श्रट्ठा, अस्स, अट्टाए । शेष जिरोषत् । श्रद्वादिति -- वेत्यनुवर्त्तते । सित्त्वात्सर्वादेशः । अट्ठ + अएदिति चतुभ्यैकवचनेऽनेनासादेशे - सवर्णदीर्घे अट्ठा | पते रसादेशे अटुस्स । तदभावे सवर्णदीर्घे अट्ठाए ॥
:
न्तस्य सोमस्य मः । ४ । ३ । ४८ ॥
प्रथमाद्वितीयैकवचनसहितस्य न्तमन्तसम्बन्धिन्तस्य वा म श्रादेशः स्यात् । भगवं, भगबन्ते, भगवन्तो । भगवं, भगवन्तं । मतिमं, मतिमन्ते, मतिमन्तो । मतिमं मतिमन्तं । एवं कारयं कारयन्ते कारयन्तो इत्यादि ।
न्तस्येति - न्तमन्तयोरिति पूर्वसूत्रादनुवर्त्तते । उच्च मश्च उन्मौ ताभ्यां संहितः सोन्मः तस्य । उदिति प्रथमैकवचनप्रत्ययः । म इति द्वितीयैकवचनप्रत्ययः । श्रादेशे सकारस्यत्वाद्विभक्तिप्रत्यय महितस्य न्तस्य स्थाने मादेशः । चकार उच्चारणार्थः मकारः शिष्यते तस्य नोरित्यनेनानुस्वारः । अन्तादिशब्देषु न्तस्यादेशो माभूदिति न्तमन्तयोरिति न्तो वर्त्तमानार्थककृत्प्रत्ययः । मन्तश्च सम्बन्धार्थकतद्धित प्रत्ययो बोध्यः । भगवन्त + उदिति स्थिते मादेशेऽनुस्वारे भगवं । मादेशाभावे उत इकारादेशे परसवर्णे भगवन्ते । इकारादेशाभावे परसवर्णे भगवन्तो । एवं प्रथमैकवचने रूपन्त्रयम् । गकारस्य यकारे तु रूपषट्कम् । द्वितीयैकवचने मसादेशे - भगवं । मसादेशाभावे भगवन्तं एवं मतिममित्यादीनि । ननु न्तस्य मन्तसम्बन्धित्वेपि न्तसम्बन्धित्वं कथं ? स्वस्मिन्स्व सम्बन्धित्वाभावादिति चेन्न लौकिकन्यायात् व्यपदेशिवद्भावात्स्वस्मि अपि स्वसम्बन्धित्वं : : विशिष्टोऽपदेशः - मुख्यव्यवहारो व्यपदेशः सोऽस्यास्तीति व्यपदेशी - यथा : मन्तघटक न्तशब्दः तत्र सम्भन्धित्वस्य मुख्यव्यवहारात् । तेन तुल्यं तद्वत् तद्भावात् । यथा मन्तशब्दे - मुख्यसम्बन्धित्वव्यवहारस्तथा केवलन्तशब्देपि व्यवहारो भवतीत्यदोषः ।
न्तमन्तयन्तत् । ४ । ३ । ४६ ॥
न्तमन्तसम्बन्धिन्तात्परयोः प्रथमाद्वितीयाबहुवचनयोरुकारादेशो वा स्यात् । भगवन्तो, भगवन्ता | भगवन्तो, भगवन्ते । मतिमन्तो, मतिमन्ता । मतिमन्तो, मतिमन्ते ।
न्तमन्तयोरिति - भदितोरुर्वेति पदद्वयमनुवर्त्तते । अदितिप्रथमा बहुवचनप्रत्ययः । इदिति द्वितीयाबहुवचनप्रत्ययः । श्रच इञ्चादितौ तयोः । तकार उच्चारणार्थः । भगवन्त + अ इति स्थितेऽनेनाकारस्यो कारे परसवर्णे भगवन्तो । इकाराभावे सवर्णदीर्घे भगवन्ता । द्वितीयाबहुवचने भगवन्त + इ इति स्थिते इकारस्योकारादेशे परसवर्णे भगवन्तो । उकारादेशाभावे परसवर्णे भगवन्ते । एवं मतिमन्तो इत्यादीनि ।