________________
जैन सिद्धान्तकौमुदी
वानुपदम् । पथामीबहुवचने जिण + इहिंतो इत्यत्र परसवर्णे जिरोहिंतो । षष्ठ्या एकवचने किश्विद्विकाराभावादेकमेव रूपम् । बहुवचने तु ममागमविकल्पेन जियांग जिरणाखेति रूपद्वयम् ॥ सिः । ४ । ३ । ३२ ॥
नाम्नः परस्य सप्तम्येकवचनस्य मेः स्यादेशो वा स्यादस्त्रियाम् ।
(
सिरिति- नाम्नः मेः अस्त्रियां वेति पदचतुष्टयं पूर्वसूत्रादनुवर्त्तते । अनेकवर्णत्वात् संपूर्णस्य मे: स्थाने सिरियादेशः । अस्त्रियामित्यस्य पुंसि क्लीबे चेत्यर्थः ।
मौ व्यञ्जनादौ नाम्नः । ४ । २ । १८ ॥
व्यञ्जनादौ सप्तम्येकवचने परे नाम्नो ममागमः स्यात् । जिसि, जिमि ।
माविति --ममिति पूर्वसूत्रादनुवर्त्तते । माविति सप्तम्यन्तम् । व्यञ्जनादाविति तद्विशेषणम् । व्यञ्जनमादिर्यस्येति बहुव्रीहिः । यदा मेरिसा देशस्तदा व्यञ्जनादित्वं नास्तीति तन्निवृत्यर्थं व्यञ्जनादाविति स्त्रीलिंगोऽपि मेअनादित्वाभावात्तन्निवृत्तिः । स्वराणामन्त्यादिति परिभाषया नाम्नोऽन्त्यस्वरात्परो ममागमः । ममि मकारो मित्कार्यार्थः । अकार उच्चारणार्थः । अवशिष्टस्य मकारस्य नोरित्यनेनानुस्वारः । जिण + मि इत्यत्र मेः स्यादेशे ममागमे जिसि । स्यादेशाभावेऽप्यनेन ममागमे जिमि स्यादेशे मिपरत्वं नास्तीति न शङक्यं यदादेशस्तद्वद्भवतीति न्यायात्स्यादेशोपि मिवद्भवतीति न ममागमे बाधः ।
मेरिरतो नाम्नो वा । ४ । ३ । १ ॥
अकारान्तान्नाम्नः परस्य सप्तम्येकवचनस्य मेरिसादेशो वा स्यात् । जिणे । जिणेसुं, जिसु ।
मेरिति - सित्त्वात्सर्वादेश: जिण + मि इति स्थितेऽनेन मेरिसादेशे परसवर्णे जिणे इति सिद्धम् । जिण + इ इति स्थिते इणाणेहीत्यनेन ममागमेऽनुस्वारे परसवर्णे च जिणेसुं । ममभावे जिणेसु । 'अत्पुंसि वातः । ४ । ३ । ६ ॥
अकारान्तान्नाम्नः परस्यामन्त्रणार्थक प्रथमैकवचनस्योतोऽद्वा स्यात्पुंसि । भो जिणा, भो जिखे । भो जिणो । भो जिणा । एवं गोयमप्रभृतयः ।
1
"
आदेति–नाम्नः आमन्त्रणे उतः इति पदत्रयमनुवर्त्तते आमन्त्रण इति सप्तम्यन्तपदस्यानुवृत्तेनोत इत्यनेन सहान्वयः । सप्तम्यर्थो वाचकत्वं । श्रामन्त्रणं चेह स्वाभिमुखीकरणं । सम्बोधनमिति यावत् । नपुंसकलिंगानिवृत्त्यर्थं पुंसीति । जिण + उ इति स्थितेऽनेनोकारस्याकारे सवर्णदीर्घे जिला । तदभावे इकारादेशे परसवर्णे जिणे । आदेशाभावे परसवर्णे भो जिणो । जिए + अदिति बहुवचने सवर्णदीर्घे भो जिणा ।