________________
व्यञ्जनविकारप्रकरणम्
रिरिति-रिरितिप्रथमान्तम् । उओरितिषष्ठ्यन्तम् । खेत्तस्यादेरिति सूत्रादादेरित्यनुकृष्यते । श्रदेरित्यस्य विशेषेणोपादानादन्त्यस्य षष्ठ्या इत्यस्य न प्रवृत्तिः । अनेनादेशे रिक । आदेशाभावे उऊ । ऋतुरित्यर्थः । उचरन्त्यस्य डुदुयाः । ३ । ४ । ५ ॥
अस्यान्त्यस्य दुयइत्येते आदेशाः स्युः उडू, उर्दू, उ ।
उनोरिति — उउशन्दस्य षष्ठयैकवचनम् । त्रयाणामादेशानामनेकवर्णत्वादन्त्यस्य षष्ठया इति परिभाषां, बाधित्वाऽनेकवर्णसिदित्यनेन, सर्वादेशे प्राप्ते सूत्रे ऽन्त्यस्येति, विशेषे गोपात्तं, तत्सामर्थ्यान सर्वादेशः, किन्त्वन्त्यस्योकारस्यैव । दुइत्यादेशे उड् । हुइत्यादेशे, उदू । यादेशे, स्वराद्यस्येति यलोपेच उभ इति ॥
खेत्तस्यादेश्छुः । ३ । ३ । ६६ ॥ स्यादेकारो वा स्यात् । छेत्तं, खेत्तं ।
1
खेत्तस्येति—-वेत्यनुवर्त्तते श्रादेरित्यस्योपादानादन्त्यस्य षष्ठ्या इति न प्रवर्त्तते । आदिभूतस्य खकारस्य छारे छेत्तं । छकाराभावे खेत्तमिति ॥
सणियमः सणिम् । ४ । ४ । २८ ॥
सणियं शब्दस्य सणिम्, आदेशो वा स्याच्चरे परे । सर्णिचरो, संणियंचर।।
सणिमिति - -चर इति, पूर्व सूत्रादनुवर्त्तते । सणियमित्यव्ययम् । शनैरित्यर्थः । सणियं चरति इति विग्रहे सणियमित्यस्य सणिमादेशे मकारस्यानुस्वारे सचिरो । आदेशाभावे सरिण्यंचरो ॥
सणियमश्वरश्च्छो वा । २ । ४ । ८७ ॥
अस्मात्परस्य चर्धातोरादेश्च्छकारो वा स्यात् । सणिच्छरो । सयिच्छरो । सणियमइति-आदेरित्यस्यानुवृत्ति: । एक देशविकृतमनन्यवदिति सणिमादेशेपि सनियमः परत्वमक्षतम् । आदिभूतस्य चकारस्य च्छकारादेशे त्रयाणामित्यनुस्वारस्य लोपे सणिच्छरो । सणिमादेशाभावे सणिय
च्छरो ॥
दसे से | ३ | ४ | १७ ॥
सिशब्दस्याकारान्तादेशो वा लेसाशब्दे परे । असलेसा, असिलेसा |
अदिति - अन्त्यस्य, षष्ठ्या, इत्यनेनासेः, पष्ठ्यन्तत्वादन्तादेशः, असिशब्दघटके कारस्या का रादेशे असलेखा । चकारादेशाभावे असिलेसा अश्लेपानक्षत्रविशेषः ।
सो द्विः । ३ । ४ । १८ ॥
असे सकारस्य द्वित्वं वा स्याल्लेसाशब्दे परे अस्तलेसा, अस्सिलेसा ।
असेरिति - असेलेंस इति पदद्वयं पूर्वसूत्रादनुकृष्यते । स इति पठ्यन्तं सकारस्येत्यर्थं असिशन्द -