________________
tsaticate
eduled
wwwwwwwwwwwww
Anitatistihintakelinikini
. నుండును
tiatinikaneKKALKAL
A
६७०
जैन-रत्नसार एव मनुजाः सहसा जिनेन्द्र ! रौद्र रुपद्रव शतैस्त्वयि वीक्षितेऽपि । गोस्वामिनि स्फुरित तेजसि दृष्ट मात्रे, चौरैरिवाशु पशवः प्रपलायमानैः ॥९॥ त्वं तारको जिन ! कथं भविनां त एव, त्वामुद्वहन्ति हृदयेन यदुत्तरन्तः । यद्वा दृतिस्तरति यज्जलमेष नून मन्तर्गतस्य मरुतः स किलाऽनुभावः ॥१०॥ यस्मिन् हर प्रभृतयोऽपि हत प्रभावाः, सोऽपि त्वया रति पतिः । क्षपितः क्षणेन । विध्यापिता हुतभुजः पयसाऽथ येन, पीतं न किं तदपि दुर्धर वाडवेन ॥११॥ स्वामिन्ननल्प गरिमाणमपि प्रपन्ना, स्त्वां जन्तवः । कथमहो हृदये दधानाः। जन्मोदधिं लघु तरन्त्यति लाघवेन, चिन्त्यो न हन्त महतां यदि वा प्रभावः ॥१२॥ क्रोधस्त्वया यदि विभो प्रथमं निरस्तो, ध्वस्तास्तदा वत कथं किल कर्म चौराः । प्लोषत्यमुत्र यदि वा शिशिरापि लोके, नील द्रुमाणि विपिनानि न किं हिमानी ? ॥१३॥ त्वां योगिनो जिन सदा परमात्म रूप, मन्वेषयन्ति हृदयाम्बुज कोश देशे । पूतस्य निर्मल रुचेर्यदि वा किमन्य, दक्षस्य संभवि पदं ननु कर्णिकायाः ॥१४॥ ध्यानाज्जिनेश भवतो भविनः क्षणेन, देहं विहाय परमात्म दशां व्रजन्ति । तीबानलादुपल भावमपास्य लोके, चामीकरत्व मचिरादिव धातु भेदाः ॥१५॥ अन्तः सदैव जिन ! यस्य विभाव्यसे त्वं, भव्यैः कथं तदपि नाशयसे शरीरम्। एतत् स्वरूपमथ मध्य विवत्तिनो हि, यद् विग्रहं प्रशमयन्ति महानुभावाः ॥१६॥ आत्मा मनीषिभिरयं त्वद भेदबुद्धया, ध्यातो जिनेन्द्र भवतीह भवत् । प्रभावः । पानीयमप्यमृतमित्यनुचिन्त्यमानं, किं नाम नो विष विकार मपाकरोति ॥१७॥ त्वामेव वीत तमसं पर वादिनोऽपि, नूनं विभी हरिहरादि धिया प्रपन्नाः । किं काचकामलिभिरीश सितोऽपि शङ्खो, नो गृह्यते विविध वर्ण विपर्ययेण ॥१८॥ धर्मोपदेश समये सविधानुभावा, दास्तां जना भवति ते तरुरप्यशोकः । अभ्युद्गते दिनपतो स महीरुहोऽपि, किं वा विबोधमुपयाति न जीवलोकः ॥१९॥ चित्रं विभो कथमवाङ्मुख वृन्तमेव, विष्वक् पतत्य विरला सुर पुप्प वृष्टिः । त्वद्गोचरे सुमनसां यदिवा मुनीश, गच्छन्ति नूनमध एव हि बन्धनानि ॥२०॥ स्थानेगभीर हृदयोदधि
kilderlina
-
--
--
---------
warrassets
समन्त्रालयका