________________
Mtrakathatantanshaktoharaaaaaaaaaantitoladamitabtaranteerstakhattsaare
स्तोत्र-विभाग
anwwarrrrrrr
MA PAARADAN
animamaniram
Ocealedu-LeksekxiKalaka
k
संभवायाः, पीयूषतां तव गिरः समुदीरयन्ति । पीत्वा यतः परम सम्मद सङ्गभाजो, भव्या ब्रजन्ति तरसाप्यजरामरत्वम् ॥२१॥ स्वामिन् सुदूरमवनग्य समुत्पतन्तो, मन्ये वदन्ति शुचयः सुर चामरौघाः । येऽस्मैः नतिं विदधते मुनि पुङ्गवाय ते नून मूर्ध्व गतयः खलु शुद्ध भावाः ॥२२॥ श्यामं गभीर गिरमुज्ज्वल हेम रत्न, सिंहासनस्थमिह भव्य शिखण्डिनस्त्वाम् । आलोकयन्ति रभसेन नदन्तमुच्चै, श्वामीकराद्रि शिरसीव नवाम्बुवाहम् ॥२३॥ उद्गच्छता तव शितिद्युति मंडलेन, लुप्तच्छदच्छविरशोक तरुर्बभूव । सान्निध्यतोऽपि यदि वा तव वीतराग, नीरागतां ब्रजति को न सचेतनोऽपि ॥२४॥ भो भोः प्रमाद मवधूय भजध्वमेन, मागत्य निर्वृति पुरीं प्रति सार्थवाहम् । एतन्निवेदयति देव जगत्त्रयाय, मन्ये नदन्नभिनभः सुर दुन्दुभिस्ते ॥२५॥ उद्योषितेषु भवता भुवनेषु नाथ, तारान्वितो विधुरयं विहताधिकारः । मुक्ता कलाप कलितोच्छ्वसितातपत्र, व्याजास्त्रिधा धृत तनुर्बुवमभ्युपेतः ॥२६॥ स्वेन प्रपूरित जगत् त्रय पिण्डितेन, कान्ति प्रताप यशसामिव सञ्चयेन । माणिक्य हेम रजत प्रविनिर्मितेन, साल येण भगवन्नभितो विभासि ॥२७॥ दिव्यस्रजो जिन नमन्त्रिदशाधिपाना, मुत्सृज्य रत्न रचितानपि मौलि बन्धान । पादौ श्रयन्ति भवतो यदि वा परत्र, त्वत्संगमे सुमनसो न रमन्त एव ॥२८॥ त्वं नाथ जन्म जलधेविपराङ्मुखोऽपि, यत्तारयस्य सुमतो निज पृष्ठ लग्नान् । युक्तं हि पार्थिव निपस्य सतस्तवैव, चित्रं विभो यदसि कर्म विपाक शून्यः ॥२९॥ विश्वेश्वरोऽपि जनपालक दुर्गतस्त्वं, किं वाऽक्षर प्रकृतिरप्य लिपिस्त्वमीश । अज्ञान वत्यपि सदैव कथञ्चिदेव, ज्ञानं त्वयि स्फुरति विश्व विकाश हेतुः ।।३०। प्राग्भार सम्भृत नभांसि रजांसि रोषा, दुत्थापितानि कमठेन सठन यानि । छायाऽपि तैस्तव न नाथ हता हताशो, ग्रस्तस्त्वमीभिरयमेव पर दुरात्मा ॥३१॥ यद्ग दुर्जित घनौधमदभ्रभीम, भ्रश्यत्तडिन्मुसलमांसलघोरधारम् । दैत्येन मुक्तमथ दुस्तर वारि दध्र, ते नैव तस्य जिन दुस्तरवारि कृत्यम् ॥३२॥ ध्वस्तोर्ध्वकेश विकृताकृति मर्त्यमुण्ड, प्रालम्बभृद्भयद्वक्र विनियंदग्निः। प्रेतब्रजः प्रति भवन्तमपीरितो यः, सोऽस्याभव
akakakakakakakakakakakakakaka
k
istani