________________
-
त्पत्तौ विभागवत एव निमित्तत्वोपपत्तेः । ननु च यद्यवयवभेदो विभागस्तदा नासौ गगनादावस्ति तस्यैकद्रव्यत्वोपगमात् । पटादिवदवयमारभ्यत्वानुपएतेश्च । ___जय प्रदेशवतोपचारी विभागस्तदा कालेऽप्यस्ति, सर्वगतककालवादि. नामाकाशादिवदुपचरितपदेशकालस्य विभागवत्वोपगमात् । तथा ३ तत्साधने सिद्धसाधनमितिकश्चित्, परमार्थत एव गगनादेः सप्रदेशत्वनिश्वयात् । तस्य सर्वदावस्थितप्रदेशत्वात् एक्व्यत्वाच्च । द्विविधा अवयवाः सदावस्थितवपुपोऽनवस्थितवपुपश्च । गुणवत्तत्र सदावस्थितद्रव्यप्रदेशाः सदावस्थिता एवान्यथा द्रव्यस्थानवस्थितत्वसंगत् । पटादिवदनवस्थितद्रव्यप्रदेशास्तु तत्वादयोनवस्थितास्तेषामवस्थितले पटादीनामवस्थितत्वापत्तेः । कादाचिस्कत्वस्येयतयावधारितावयवस्वस्य च विरोधात् । तत्र गगनं धर्माधर्मकजीवाश्चावस्थित. प्रदेशाः सर्वे यतोऽधारितप्रदेशत्वेन वक्ष्यमाणत्वात् प्रदेशप्रदे.. शिमावस्य च तेषां तैरनादित्वात् । कथमनादीनां गगनादितत्पदेशानां प्रदेशप्रदेशिभावः परमार्थपथपस्थायी ? सादीनामेव तंतुपटादीनां तद्भावदर्शनात इति चेत्, कथमिदानी गगनादितन्महस्वादिगुणानामनादिनिधनानां गुणगुणिभाषः पारमार्थिकः सिध्येत् ? तेषांगुणगुणिलक्षणयोगात तथाभाव इति चेत्, तर्हितत्प्रदेशानामपि प्रदेशिपदेशलक्षणयोगात् प्रदेशप्रदेशिभावोऽस्तु । यथैव हि गुणपर्ययवद्रव्यमिति गगनादीनां द्रव्यलक्षणमस्ति तन्महत्वादीनां च 'द्रव्याश्रिता निर्गुणा गुणा" इति गुणलक्षणं तथावयवानामेकत्बपरिणामः प्रदेशिद्रव्यमिति प्रदेशिलक्षणं गानादीनामवयुत्तोऽवयवः प्रदेशलक्षणं तदेकदेशानामस्तीति युक्तस्तेषां प्रदेशप्रदेशिभावः । कालस्तु नैकद्रव्यं तस्यासंख्येयगुणद्रव्यपरिणामत्वात् । एकैकस्मिल्लोकाकाशप्रदेशे कालाणोरेकैकस्य द्रव्यस्यानंतपर्यायस्थानभ्युपगमे . तद्दशवर्तिद्रव्यस्यानंतस्य परमाण्वादेरनतपरिणामानुपपत्तेरिति द्रव्यलो भावतो वा विभागवत्त्वे साध्ये कालस्य न सिद्धसाधनं । नापि गगनादिनानैकांकिको हेतः । क्षित्यादि
देशानामस्तीति
। एकैकस्मिल्लोकायानंतस्य