________________
साध्यायां, तथाप्यप्रयोजको हेतुस्तिष्ठत्भूगोलाकारतायामपि तद्धटनात् । अथ भूसामान्यस्य गोलाकारतायां साध्यायां हेतुस्तथाप्यगमकस्तियकसूर्यादिभ्रनणादिनामधगोलकाकारतायामपि भूमेः साध्यायां तदुपपत्तेः । समतलायाममि भूमौ ज्योतिर्गतिविशेषासमरानादिदर्शनस्योपपादितत्वाच्च । नातः साध्यसिद्धिः कालात्ययापदिष्टव च । प्रमाणबाधितपक्षनिर्देशानंतर प्रयुज्यमानस्य हेतुल्लेतिप्रसंगात् । ततो नेदमनुमान हेत्वाभासोत्थं बाधक प्रकृतागमस्य येनास्मादेवेष्टसिद्धिर्न स्यात् ॥
ज्योतिः शास्त्रमतो युक्तं नैतत्स्याद्वादविद्विषाम् ।। • संवादकमनेकान्ते सति तस्य प्रतिष्ठिते ॥ १७ ॥
नहि किंचित्सर्वथैकान्ते ज्योतिःशास्त्रे संवादकं व्यवतिष्ठते प्रत्यक्षादिवत् नित्याधने कान्तरूपस्य तद्विषयस्य सुनिश्चितासंभवडाधकस्वाभावात्. तस्य दृष्टेष्टाभ्यां व धनात् । ततः स्याद्वादिनामेव तद्युक्तं, सत्यनेकान्ते तत्प्रतिष्ठानात् तत्र सर्वथा बाधकविरहितनिश्चयात् ॥ .. ॥ तत्कृतः कालविभागः ॥ १४ ॥
किंकृत इत्याह-. - ये ज्योतिष्काः स्मृता देवास्तस्कृतो व्यवहारतः ॥ कृतः कालविभागोयं समयादिर्न मुख्यतः ॥ १॥ तद्विभागात्तथा मुख्यो नाविभागः प्रसिद्धयति ॥ विभागरहिते हेतौ विभागो न फले क्वचित् ॥ २॥
विभागवान् मुख्यः कालो विभागवत्फलनिमित्तत्वात क्षित्यादिवत् । समयावलिकादिविभागवद्यवहारकाले लक्षणफलनिमित्तत्वस्य मुख्यकाले धर्मिणि प्रसिद्धत्यात् नाप्याश्रयासिद्धः, सकलकालवादिनां मुख्यकालें. विवादाभावात् तदभाववादिना तु प्रतिक्षेपात् । गगनादिनानकांतिकोऽयं हेतुरिति चेन्न, तस्यापि विभागवदवगाहनादिकार्यो: