________________
पत्तिाघ्रौव्यादिति न शंकनीय, नित्यशब्दस्याभीक्ष्ण्याचित्वान्नित्यपहसितादिवत् ॥
ऊर्धाधोभ्रमण सर्वज्योतिषां ध्रुवतारकाः॥ मुक्त्वा भूगोलकादेवं प्राहुर्भूभ्रमवादिनः ॥ १३॥ तदप्यपास्तमाचार्यैर्नलोक इति सूचनात.॥
तत्रैव भ्रमण यस्मानोवर्धाधोभ्रमणे सति ॥ १४ ॥ . घनोदधेः पर्यते हि ज्योतिर्गणगोचरे सिद्ध त्रिलोक एवं श्रमण ज्योतिषामुर्वाधः कथमुपपद्यते ? भूविदारणप्रसंगात् । तत एव विंशत्युत्तरैकादश योजनशतविष्कभत्वं भूगोलश्चाभ्युपगम्यत इतिचेन्न, उत्तरतो. भूमण्डलस्येयचातिक्रमात् तदधिकपरिमाणस्य प्रतीतेः तच्छतभागस्यच सातिरेकैकादशयोजनमात्रस्यैव समभूभागस्याप्रतीतेः कुरुक्षत्रादिषु भूद्वादशयोजनादिप्रमाणस्यापि समभूतलस्य सुप्रसिद्धत्वात । तच्छतगुणविष्कंभभूगोलपरिकल्पनायामनवस्थाप्रसंगात् । कथं च स्थिरेऽपि भूगोले गंगासिध्वादयो नद्यः पूर्वापरसमुद्रगामिन्यो घटेरन ? भूगोलमध्यान्तप्रभावादितिचेत, किं पुनर्भुगोलमध्यं ? उज्जयिनीतिचेत्, न ततो गंगासिंध्वादीनां प्रभवः समु. पलभ्यते । यस्मात् तत्पभवः प्रतीयते तदेव मध्यमितिचेत्, तदिदमतिव्याहतं। गंगाप्रभवदेशस्य मध्वत्वे सिंधुप्रभवभूभागस्य ततोतिव्यवहितस्य मध्यत्वविरोधात् । स्ववाहदेशापेक्षया त्वस्य मध्यत्वे न किंचिदमध्यं स्यात् स्वसिद्धां. तपरित्यागश्चोज्जयिनीमध्यवादिनः । तदपरित्यागे चोज्जयिन्या उत्तरतो नद्यः सर्वाउदमुख्यस्तस्या दक्षिणतोऽवाङ्मुरव्यस्ततः पश्चिमत: प्रत्यइमुख्यस्ततः पूर्वतः प्राङमुख्यः प्रतीवेरन् । भूम्यवगाहभेदान्नदीगतिभेद इतिचेन्न, भूगोलमध्ये महावगाहप्रतीतिप्रसंगात् । नहि यावानेव नीचैर्देशेवगाहस्तावानेवोर्श्वभूगोले युज्यते । ततो नदीभिभूगोलानुरूपतामतिक्रम्य वहंतीति भोगोलविदाहरणमिति सममेव धरातलमबलंबितुं युक्तं, समुद्रादिस्थितिविरोधश्च तथा परिहृतः