________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८३
अ० ५ पा० २ सू० १७२-१८०] महावृत्तिसहितम्
प्रश्नोतः॥शरा१७२॥ अश्नोतेश्च कृतदीत्वान्नुडू भवति । व्यानशे। व्यानशाते । व्यानशिरे । नियमार्थोऽयमारम्भः । अश्नोतेरेवाकारोडो नुड भवति नान्यस्य । आटतुः। श्रादुः। तुल्यजातीयस्य नियमादिह भवत्येव । आनृचतुः । आनृचुः । अश्नोतेरिति विकरणनिर्देशादश्नातेनं भवति । श्राशतुः । श्राशुः।
भवतेरः ॥५।२।१७३॥ भवतेश्चत्य अकारादेशो भवति लिटि परतः । बभूव । बभूवतुः । बभूवुः । व्यतिबभूवे । “लुङ लिटोवुक [४] इति युगागमः । लिटीत्येव । बुभूषति । बोभूयते। तिपा निर्देशो यवन्तनिवृत्त्यर्थः । बोभवाञ्चकर । नैतदस्ति "कास्यनेकाच्च्याल्लिट्याम्" [११३१] इति श्रामाव्यवहिते लिंटि कथं प्रातिः । “इकस्तिपौ धुनिर्देशे" इत्यस्य सूचनार्थस्तर्हि ।
निजामुच्येप ॥१२१७४॥ निजादीनामुचि चस्यैब् भवति । बहुत्वनिर्देशादायों गम्यते । नेनेक्ति । वेवेक्ति । वेवेष्टि । नेनिक्त इत्यत्र चत्य “क्ङिति" [1१1१६] इत्येप्रतिषेधो न भवति । धुरूपेण व्यवहितत्वात् । उचीति किम् ? निनेज । निजादयन्त्रयो वृत्पर्यन्ताः ।
भृञां त्रयाणामिः ॥शरा१७५॥ भृञादीनां त्रयाणामुचि चस्य इकारादेशो भवति । विभर्ति । मिमीते । सञ्जिहीते । “अन्तेऽलः" [३१।४६] इति अच इत्वम् । त्रयाणामिति किम् ? जहाति । उचीत्येव । बभार ।
प्रोः ॥शश१७६।। पिपति इयति इत्येतयोः उचि चस्येत्वं भवति । पिपर्ति । पिपृयात् । अपिपः । इयति । इययात् । ऐपः । अर्ते लट शप् । उच् एप द्वित्वमित्वं “चस्यास्वं' [४।४।७३] इतीय । “हल्यापः [४।३।५६] इति तिपः खम् । अडागमः । “अटश्च" [॥३॥७८] इत्यैप् । उचीस्यनुवर्तनम् । जुहोत्यायोः प्रोरिदं ग्रहणम् । अर्तेर्भाषायामपि प्रयोगः ।
सन्यतः॥शरा१७७॥ सनि परतश्चस्यात इत्वं भवति । पिपक्षति । पिपासति । सनीति किम् ? पपाच । अत इति किम् ? तुष्टपति । सनि यश्चस्तस्येत्वम् । पापच्यतेः सन् पिपापचिषते। तपरकरणं सुखार्थम् ।
प्रोः पुयणज्ये ॥१२ १७८॥ उवर्णान्तस्य पवर्गयण जकारेषु अवर्णपरेषु सनि परतः इत्वं भवति । पिपावयिषति । बिभावयिषति । यण । यियावयिषति । रिरावयिषति । लिलावयिषति । जु इति सौत्रो धुः । जिजावयिषति । प्वादिभ्यो एयतेभ्यः सन् । अोरिति वचनं ज्ञ पकम् "हिरवे कर्तव्ये णौ कृतं स्थानिवद्भवति" ननु वचनस्येदं प्रयोजनम् । पिपविषते यियविषतीति । "स्मिङ पूङ र ज्वशः सनि" [५।१।१३३] । “सनीवन्त
भ्रस्ज" [५।१।१७] इत्यादिना वेट् । एबवादेशौ। “द्वित्वेऽचि" [१।१।५७] इति स्थानिवद्भावाद्वित्वमनेनेत्वम् । यद्येतावत् प्रयोजनं स्यात् । पकारयकारग्रहणमेव क्रियेत । पवर्गयण ग्रहणमनर्थकं स्यात् । पुयण जोति किम् ? नुनावयिषयिति । अवर्णपर इति किम् ? लुलूषति ।
___ श्रद्र प्रप्लुञ्च्यु डो वा ॥५॥२॥१७६॥ सवत्यादीनां चस्य श्रोः अवर्णपरे यणि परतः सनि बा इकारादेशो भवति । सिस्तावयिषति । सुस्रावयिषति । शिश्रावयिषति | शुश्रावयिषति । दिद्रावयिषति । दुद्रावयिषति । पिप्रावयिषति । पुप्रावयिवति । पिप्लापयिषति । पुप्लावयिषति । चिच्यायिषति । चुच्यावयिषति । अवर्णपर इति वचनात् ण्यन्तात्सन् । बचनसामर्थ्यात् सकारादिनैकेन यणो व्यवधानमिहाश्रितम् । अवर्णपर इत्येव । शुश्रपति । अप्राप्त विकल्पोऽयम् ।
यङपोरेप् ॥१२१८०॥ यङि यद्यपि च परत इगन्तस्य चत्य एप भवति । नेनीयते । बोभूयते । नेनयीति । बोभवीति । न हि यङपोऽन्यत्रोपि चः सम्भवन्तीत्युप्छब्देन यङ्पसम्प्रत्ययः । “नोमता गोः" [१।११६४] इल्याश्रयकार्यप्रतिषेधाद्यपि विधानम् ।
For Private And Personal Use Only