________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्र० ५ पा० १ सू० ६२-६७ ]
महावृत्तिसहितम्
३४७
समस्कृत | सम्पूर्वस्य कृञः " सम्पर्युपात्कृनः " [ ४|३|११० ] इति मुर् | पूर्व बुगिंना युज्यते पश्चात्साधनवाचिना त्येनेत्यन्तरङ्गः सुट् । बहिरङ्ग समकृतेत्यत्र कात्पूर्वमट् स्यात् ।
स्वरतिषूङ्घसूत्यूदितः || ५|१|१२|| स्वरति पूङ् धूञ् सूति इत्येतेभ्यः ऊदिभ्यश्च वलयस्य वाइड भवति । “लिङ स्योदें" [ ४१६० ] इत्येतन्निवृत्तम् । वेत्यनुवर्तते । इष्टतोऽधिकाराणां प्रवृत्तिनिवृत्ती इति स्वरतेरप्राप्ते विकल्पोऽन्येषां प्राप्ते । स्वर्ती । स्वरिता ! स्वर्तुम् । स्वरितुम्। विसोता । विसविता | विधोता । विधविता | सोता । सविता । ऊदितः । विगाढा | विगाहिता । निगोढा । निगूहिता । स्वरतैस्तिपा निर्देशो यचन्तनिवृत्यर्थः । सरीस्वरिता । सूङ्ङ्घञरनुबन्धनिर्देशः सुवतिबुवत्योर्विकल्पनिवृत्त्यर्थः । सविष्यति । विष्यति । स्वरतेः स्थविषये "हनृतः स्ये” [ ५|१|१२६] इति परत्वादिट् । स्वरिष्यति । विद्विषयेऽपि परत्वात् "युकः किति" [५/१/११७] इति प्रतिषेधः । सृत्वा । धूत्वा । स्वरत्यादीनां प्रतिपदग्रहणं किम् ? ऊदित एव ते पठितव्याः ? पृथग्ग्रहणस्यैतत्प्रयोजनम् । अनुबन्धकृतमनित्यं भवति । तेन उपलब्धिः । दंष्ट्रा इत्यत्र पित्वादङ् टिवान्ङीर्न भवति । अनुबन्धनिर्दिष्टं यचन्तस्य न भवति । जोगूहिता |
रधादेः || ५|२१|१३|| रध इत्येवमादिभ्यश्च वा इड् भवति । रद्धा । रविता | नंष्टा । नशिता । रधादयोऽष्टौ वृत्पर्यन्ताः । प्रकृतस्येटः स्याद्विकल्पः क्रादिनियमाल्लिटि कथम् ? रधादिषूदात्तानुदात्तपाठाभावात् "येन नाप्राप्ते तस्य तद्बाधनम्" इत्यस्य न्यायस्यासम्भवात् श्रविशेषेण विकल्पः । ररध्व । ररम | रन्धि | ररन्धिम |
निष्कुषः || ५|१|१४|| निस्पूर्वात्कुषः बलाद्यगस्य वा इड् भवति । निष्कोष्टा । निष्कोष्टिता । “इदुदुङोऽत्यम्मुहुस:" [ ५४२८ ] इति रेफस्य सत्वम् । इणः षत्वम् । निस् इति किम् ? कोषिता ।
प्रकोषिता ।
इट् ते ||२||६५ ॥ निपूर्वीत् कुषः ते परतः इड् भवति । निस्कुषितः । निस्कुषितवान् । पुनरिग्रहणं नित्यार्थमन्यथा विकल्पः स्यात् । आरम्भो हि " यस्य वा " [ ५|१|१२१] इत्यस्य बाधनार्थो न नित्यार्थः । वेत्युत्तरत्रानुवर्तत एव ।
ती सहलु रूपरिषः || ५ | ११६६ ॥ तकारादावगे परतः इष सह लुभ रुप रिंप इत्येतेभ्यो वा इड् भवति । एष्टा । एपिता । सोटा । सहिता । लोग्धा । लोभिता । रोष्टा । रोपिता । रेष्टा । रेषिता । तकारादाविति किम् ? एषिष्यति । इभौवादिकस्य ग्रहणं सहिसाहचैर्यात् । तेनेतरयोर्विकल्पो न भवति । को विशेषः ते " यस्य वा " [ ५।१।१२१ ] इति प्रतिषेधो न भवति । इषितः । इषितवान् । लुभ इत्यविशेषण
ग्रहणम् ।
सनीघन्तर्द्ध भ्रस्जदम्भुवृत्रिर्गुभरशपिसनाम् ॥१६७॥ इन्तानां धूनाम् ऋधू भ्रस्ज दम्भु स्वृ श्रि यु ऊर्णुळे भर ज्ञपि सन इत्येषां च सनि परतः वा इड् भवति । दुद्यूषति । दिदेविषति । सूस्यूपति । सिसेविषति । श्रनिट्पक्षे " हलन्तात् " [1111८४] इति सनः कित्त्वम् । “छो: शूड्डे च” [४|४|१७] इत्यूट् । यणादेशो द्वित्वं च "पणि चारिणस्तोरेव " [५/४/४१] इति नियमात् सिवेश्चात् परस्य पत्वं न भवति । ईति श्रर्दिधिपति । ऋधेः सन् । च इति द्वितीयस्यैकाचो द्वित्वम् । " श्राज्ञपृधामीत्" [५/२/१५७ ] इति ऋकारस्य ईत्वम् । रन्तत्वम् । " चस्यात्र खम् " [५१२/१६० ] | इटि सि इति । "न स्फादौ न्द्रोऽयि” [४|३|३] इति विशब्दस्य द्वित्वम् । " चे चर्व्वम्" [ ५|४|१२६] इति दः । बिभर्क्षति । विभ्रक्षति । बिभर्जिषति विभ्रज्जिप्रति । "भ्रस्जो रसोरम्बा " [ ४|४|१४६ ] इदि रेफसकारयोः वा परो रम् भवति । धिप्सति । धीप्सति । दिदम्भिषति । " दम्भ इच्च" [ ५|२/१५८ ] इति श्रस्य इत्वमी ईत्वम् | "चस्यात्र खम्" । " हलन्तात् " [ १११८६४ ] इति कित्त्वान्नै । " एकाचो वशः " [ ५/३/५४ ] इति धत्वम् । " खरि" [ ५|४|१३०] इति चर्व्वम् । सूस्वर्षति ।
For Private And Personal Use Only