________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३१०
जैनेन्द्र-व्याकरणम्
[ श्र० ४ पा० ३ सू० १७६ - १८३
खित्यः || ४|३|१७६ ॥ विदन्ते यो अजन्तस्य प्रो भवत्यः । कालीमात्मानं मन्यते कालिम्भन्या । रोहिणिम्मन्या । "खश्चात्मनः " [ २२२|७१] इति खरा । खित्यनन्तरः प्रादेशभाग्नास्तीत्युक्तम् । श्ररिति प्रतिषेधाच्च खिदन्ते द्यौ पूर्वस्य प्रपरोऽपि " मुमचः " [ ४।३।१७७ ] इति प्रादेशेन बाध्यते । श्ररिति किम् ? दोषामन्यमहः । दिवामन्या रात्रिः ।
Acharya Shri Kailassagarsuri Gyanmandir
मुमचः || ४ | ३ | १७७ || पूर्वस्य पदस्याजन्तस्य खिदन्ते द्यौ मुम् भवत्यः । प्रियंवदः । वशंवदः । कालिम्मन्या । हरिणिम्मन्या । " विध्वरुपोस्तुदः सखम्” [२|२| ३७ ] इति सखे कृते मुम् । विधुन्तुदः । श्ररुन्तुदः । " द्विषन्तपेरम्मद" [३८] इति निपातनाद् द्विषन्तपः । च इति किम् ? विद्वन्मन्यः ।
श्रमेोऽम्वत् ||४|३|१७८ ॥ श्रच इति वर्तते । श्रजन्तस्य पूर्वपदस्यैकाचोऽम् भवति खिदन्ते द्यौ श्रमवास्मिन् कार्य ं भवति । श्रात्वपूर्वस्यैचि युवादिप्रयोजनम् । अवर्णान्तस्यामि नास्ति विशेषः । श्रनवर्णान्तमुदाहरणम् । गाम्मन्यः । स्त्रीम्मन्यः । स्त्रियम्मन्यः । नृशब्दस्य नरम्मन्यः । श्रियम्मन्यः । ध्रुवम्मन्यः । नावमात्मानं मन्यते नावम्मन्यः । प्रादेशमुमोरयमपवादः । एकाच इति किम् ? लेखाकं मन्यः । इत्येव द्विमन्यः । निपातनाद् वाचंयमपुरन्दरौ । श्रमित्यागमलिङ्गादपरोऽपि मकारः प्रयोगश्रवणार्थः स्फान्तखेन निर्दिष्टः ।
कथम्भवितव्यम्, श्रियमात्मानं कुलं मन्यते इति ? उच्यते - श्रीशब्द श्राविष्टलिङ्गः स्त्रियामेव वर्तत इति श्रियम्मन्यमिति भवितव्यम् । अन्ये मन्यन्ते स्वलिङ्गान्तरेऽपि वृत्तिदृष्टा । यथा प्रष्ठादिशब्दानां पुंयोगात् स्त्रियां वृत्तिः । प्रष्ठी । प्रचरी । गणकी। एवं श्रीशब्दस्य कुले वर्तमानस्य नपुंसकलिङ्गत्वं "प्रो नपि" [91१1७ ] इति प्रादेश: । श्रम्वदतिदेशात् “नपः स्वमा: " [ ५/११२० ] इत्युपू | "मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् " [ प ० ] इति “सुपो धुमृदोः " [ १।४।१४२ ] इत्यस्यैवोपोऽमागमो बाघको नोत्तरस्य तेन श्रिमन्यमिति भवितव्यम् । एतच्च नातिश्लिष्टम् । वेदः प्रमाणमित्यादौ लिङ्गान्तरं प्रसज्येत ।
सत्यागदास्तोः कारे ||४३|१७६ ॥ सत्य अगद, अस्तु इत्येतेषां कारे द्यौ मुमागमो भवति । सत्यङ्कारः । श्रगदङ्कारः । ऋणि वनि वा काररूपम् । अस्तुराब्दो निसंज्ञकोऽभ्युपगमे वर्तते । स्त्वित्यस्य करणम् अस्तुङ्कारः
रात्रेः कृति प्रभाचन्द्रस्य ||४|३|१८०|| रात्रिशब्दस्य कृति द्यो मुमागमो भवति प्रभाचन्द्रस्याचार्यस्य मतेन । रात्रिञ्चरः । रात्रिचरः । रात्रिमाटः । रात्र्याः । ग्रहणसामर्थ्यादयमप्राप्ते विकल्पः । खिति पूर्वनिर्णयेन नित्य मुमागमः । रात्रिंमन्यमहः । रात्रेरनन्तरः कृन्नास्तीति कृदन्तग्रहणम् । ननु रात्रिरिवाचरतीति " आधारे सर्वस्म्रुद्भ्यः क्विपू” [२११३६ वा०] इति तदन्तात्कृत्क्विस्ति । यदि तदर्थं कृद्ग्रहणं स्यात् । रात्रेः किपीति निर्देशं कुर्यात् । क्वित्रन्तस्य तु रात्रिशब्दस्य अन्यस्मिन् कृदन्ते मुग्न स्यात् गौणत्वात् ।
नञोऽन् ||४|३|१८१ ॥ नमोऽनित्ययमादेशो भवति द्यो । न हिंसा अहिंसा "नन्" [१।३।६८ ] सुपा इति सः । अनेकाच्त्वात्सर्वादेशोऽन् । स्थानिवद्भावेन पदादेशः पदवद्भवति इति नखम् । एवम् क्रोधः । अस्तेयम् । सानुबन्धकनिर्देशः किमर्थः ? वामनपुत्रः पामनपुत्र इत्यत्र माभूत् । द्यावित्येव । न भुङ्क्ते । "नजोऽनुभात्रे क्षेपे मिङ्युपसंख्यानम्" [वा०] । श्रकरोषि त्वं जाल्म । पचसि त्वं जाल्म ।
अचि || ४|३|१८२ ॥ जादौ च द्यौ नञोऽन् भवति । अनन्तः । श्रनादिः । अनुपमो जिनः । पुनर्वचन नखनिवृत्त्यर्थम् | "दोऽनन्ने” [ २२२२६० ] इति ज्ञापकान्नञो नो ङमु न भवति ।
नवारनपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकनागाः
||४|३|१८३॥ नाट्नपात् नवेदा नासत्या नमुचि नकुल नख नपुंसक नक्षत्र नक नाक नाग इत्येते शब्दा निपात्यन्ते । न भ्राजते न वा न भ्राजते किन्तु भ्राजत एवेति नभ्राट् । भ्राजतौ क्व्यन्ते द्यौ नञः प्रकृतिभावः । द्वयोर्वा नञोः एको
For Private And Personal Use Only