________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ४ पा० ३ सू० १६७-१७५]
महावृत्तिसहितम्
३०६
वा निष्कघोषमिश्रशब्दे ॥४।४।१६७॥ निष्क घोष मिश्र शब्द इत्येतेषु परतः पादस्य वा पद्भवति । पादस्य निष्कः पन्निष्कः। पादनिष्कः । पद्धोषः । पादघोषः। पन्मिश्रः। पादमिश्रः । “पूर्वावरसदृश" [१३२८] इत्यादिना भासः। पच्छब्दः । पादशब्दः ।
उदकस्योद द्योश्च खौ ॥४॥३।१६८॥ उदकस्य उद इत्ययमादेशो भवति द्योश्च तस्योदकस्य खुविषये । उदकस्य मेघ उदमेघो नाम यस्यौदमेधिः पुत्रः । उदकं वड्तीत्युदवाहो नाम यस्यौदवाहिः पुत्रः। अपत्येन पिता लक्ष्यते । उदकस्य घोष उद्घोषः । लोहितोदा क्षीरोदा नदी । खाविति किम् ? उदकपर्वतः ।।
पेषमि ॥४।३।१६६॥ पेषमि द्यौ उदकस्य उद इत्ययमादेशो भवति । उदकेन पिनष्टि उदपेषं पिनष्टि तगरम् । “स्नेहने पिषः" [२।४।२७] इति णम् । कथम् उदवास उदवाहनः उदधिरिति ? संज्ञाशब्दा अमी पूर्वेण सिद्धाः। कथमुदधिर्घटः ? उपमानाद्भविष्यति ।
वैकहलि पूर्ये ॥४।३.१७०॥ एकोऽसहायस्तुल्यजातीयेन यो हल तदादौ धौ पूर्ये उदकस्य वा उद इत्ययमादेशो भवति । उदकस्य कुम्भः उदकुम्भः । उदककुम्भः । उदघटः । उदकघटः । उदपात्रम् । उदकपात्रम् । एकलीति किम् ? उदकस्थालम् । पूर्य इति किम् ? उदकगिरिः । अखावपाते विभाषेयम् ।
मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहे ॥४॥३।१७१॥ मन्थ श्रोदन सक्तु बिन्दु वज्र भार हार वौवध गाह इत्येतेषु परत उदकस्य वा उद इत्ययमादेशो भवति । अपूर्यार्थोऽयं यत्नः । उदमन्थः । उदकमन्थः । उदकेनौदनः उदौदनः । उदकौदनः । उदकेन सक्तुः उदसक्तः। उदकसक्तः । “भच्यान्नाभ्यां मिश्रणव्यञ्जने" [१।३।३०] इति भासः। उदविन्दुः । उदकबिन्दुः। उदवज्रः । उदकवज्रः। उदभारः। उदकभारः। उदहारः। उदकहारः । उदवीवधः । उदकवीवधः । उदगाहः । उदकगाहः । मन्थभारहारा अण्णन्ता घनन्ता वा ।
इकः प्रोऽङल्याः ॥४।३.१७२॥ इगन्तस्य द्यौ वा प्रो भवत्ययाः । ग्रामणिपुत्रः । ग्रामणोपुत्रः । यवलुपुत्रः । यवनपुत्रः । अलानु कर्कन्धु इन्भु फलम् । अत्र पूर्वपूर्वस्य प्रादेशे सति उत्तरेण सविधिः । इक इति किम् ? खट्वापादः । मालापादः । अङग्या इति किम् ? गार्गीपुत्रः । दासीपुत्रः। वेति व्यवस्थितविभाषाश्रयणादिह न भवति । कारीषगन्धीपुत्रः । कारीषान्धीपतिः । झिपंज्ञेयुवां च न प्रादेशः। काण्डीभूतम् । कुख्यीभूतम् । श्रीकुलम् । भ्रुकुलम् । भ्रूकुंसादीनां तु प्रादेशो भवत्येव । भ्रकुंसः । क्वचिदन्यदेव । भ्रुकुसादीनामकाराश्चान्तादेश इध्यते । भ्रकुंसः । भ्रकुटिः ।
त्वे ड्यापो क्वचित्खौ च ॥४।३।१७३॥ त्वे परतो ड्यन्तस्य प्रायन्तस्य क्वचित्प्रो भवति खौ च द्यौ । अजत्वम् । अजात्वम् । रोहिणित्वम् । रोहिणीत्वम् । वे छान्दसः प्रयोग इति केचित् । खौ-रेवतिभित्रः । रोहिणिमित्रः । भरणिमित्रः । कचिन्न भवति । नान्दीकरः । नान्दीघोषः । श्राबन्तस्य शिलाया वहः शिलबाटः । शिलप्रस्थः । शिशपस्थलम् । न च भवति लोपिकागृहम् । लोपिकापण्डम् । क्वचिद् ग्रहणं बहुलार्थम् ।।
हृति चैका ॥४।३।१७४॥ हृति परतो द्यौ च एका इत्येतस्य प्रो भवति । एकस्या आगतम् एकरूप्यम् । एकमयम् । “हेतुमनुष्याद्वा रूप्यः" [३।३।५५] “मयट्” [३।३।५६] इति च रूप्यमयटौ । एकत्याभाव एकत्वम् । एकता । गुणवचनत्वे "तसादौ” [।३।१४७] त्वतलोर्गुणवचनस्य इति पुंवद्भावेन सिद्धत्वादन्यत्रेदं द्रष्टव्यम् । द्यौ एकस्या क्षीरम् एकक्षीरम् । एकदुग्धम् । एका प्रिया अस्य एकप्रियः । एकमनोज्ञः ।
मालेषीकेष्टकानां भारितृलचिते ॥४॥३॥१७५॥ माला, इपीका, इष्टका इत्येतेषां प्रो भवति भारिन तूल चित इत्येतेषु परतः । मालभारी। मालभारिणी । इषीकतूलम् । इष्टकचितम् । क्वचिदित्यनुवृत्तालादिभिः स्तदन्तविधिरपि । उत्पलमालभारिणी। मुजेषीकतूलम् । पक्वेष्टकचितम् ।
For Private And Personal Use Only