________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६६
जैनेन्द्र-व्याकरणम्
[ श्र० ४ पा० १ सू० १
शाखादेर्यः || ४१|१५७ ॥ शाखा इत्येवमादिभ्य इवार्थे यो भवति । शाखेव शाख्यः । मुखमिव मुख्यः । शाखा । मुख । जघन ! स्कन्ध । मेघ । चरण । शृंग । उरस् । श्रग्र । शरण ।
द्रव्यं भव्ये ||४|१|१५८ || द्रव्यमिति निपात्यते भव्येऽर्थे । भव्यविशेषे इवार्थे वर्तमानाद् दुशब्दाद् य इत्ययं त्यो निपात्यते । दुरिव द्रव्यम् कार्षापणम् । इष्टार्थक्रिया हेतुरित्यर्थः । द्रव्यमयं राजा श्रात्मवानि त्यर्थः । भव्य इति किम् १ दुरिवायं न चेतयते पुरुषः ।
Acharya Shri Kailassagarsuri Gyanmandir
कुशाग्राच्छः ॥४|१|१५९॥ कुशाग्रशब्दादिवायें छो भवति । सूक्ष्मत्वेन कुशाग्रमिव कुशाग्रीया बुद्धिः । कुशाग्रीयं शास्त्रम् ।
सातद्विषयात् ||४|१|१६० ॥ इवशब्दः सादृश्यार्थस्तच्छब्देन परामृश्यते । इवार्थविषयात् सात् छो भवति । इवार्थविषयस्य च सस्यैटमेव ज्ञापकम् । यदृच्छया अतर्कितोपनते चित्रीकरणे इवार्थविषये सो भवति । सुप्सुपेति सविधानमेवंविषयमेव द्रष्टव्यम् । काकतालीयम् । तालशाखाग्रे काकः प्राप्तः, तालं च पतितं तेन च पतता तालेन स काको हतः । इदं चित्रीकरणम् । तथा देवदत्तश्च वृक्षं श्रितः । तत्राशनिश्च पतितः । तत्र देवदत्तस्याशनेश्च समागमः काकतालसमागमसदृशः । काकवधसदृशश्व देवदत्तवधः इति समागमसादृश्ये सविधानम् । वध सादृश्ये त्यविधिः । एवमन्धकवर्तकीयम् । श्राकृपाणीयम् । इह शस्त्रीश्यामा । पुरुषव्याघ्र इति समुदाय इवार्थविषयो न भवति । किन्तु पूर्वपदमुत्तरपदं वा । तेन छो न भवति ।
शर्करादिभ्योऽण ||४|१|१६१ ॥ शर्करा इत्येवमादिभ्यो हवार्थेऽण भवति । शर्करेव शार्करम् । कपालिकेव कापालिकम् । " भस्य हृत्यढे" [ ४।३।१४७ वा० ] इति पुंवद्भावे प्राप्ते "न बुहकोड: " [४] १४१] इति प्रतिषेधः । शर्करा । कपालिका । कपिष्ठिका | गौमत् । गोपुच्छ । पुण्डरीक । शतपत्र | नराची । नकुल । सिकता ।
श्रृङ्गुल्यादेष्टण् ||४|१|१६२|| अङ्गुली इत्येवमादिभ्य इवार्थे ठण भवति । श्रङ्गुलीव श्रङ्गुनिकम् । अङ्गुलि | भरुन । वभ्रु । वल्गु । रुष् । खल । उदश्वित् । गोणी । उरस् । मण्डर । मण्डल । शष्कुल । कुलिश | हरि । कपि । मुनि |
I
वैकशालायाष्ठः ||४|१|१६३॥ एकशालाशब्दादिवार्थे वा ठो भवति । वावचनेनानन्तरस्य णः समुच्चयः । एकशाले एकशालिकः । ऐकशालिकः ।
कर्कलोहिताट्टीकण् ||४|१|१६४ ॥ कर्कलोहितशब्दाभ्यामिवार्थे टीकण् भवति । कर्क: शुक्लाश्वः । कर्क व कार्कीकः । लौहितीकः । टकारः स्त्रियां ङयर्थः ।
इत्यभयनन्दिविरचितायां महावृत्तौ चतुर्थस्याध्यायस्य प्रथमः पादः समाप्तः ।
पूयोऽग्रामणीपूर्वात् ||४ |२| १ || इव इति निवृत्तम् । पूगवाचिनो मृदोऽग्रामणीपूर्वात् स्वार्थे यो भवति । नानाजातीया श्रनियतवृत्तयोऽधर्म ( ऽर्थ ) कामपराः संघाः पूगाः । पूगशब्दः समुदायवचनस्तस्यैकत्वेन निर्देशः । यथा यूथं वनमिति । ये त्वस्य विशेषवाचिनः शब्दास्तेषां भेदवाचित्वात् एकद्विबहवो भवन्ति । लोहध्वजा इति पूगः । लौहध्वज्यः । लौहध्वज्यौ । लोहध्वजाः । शैव्यः । शैव्यौ । शिवयः । वातक्यः । वातक्यौ | वाताः । " बहुषु तेवास्त्रियाम्" [१ |४| १३५ ] इति बहुषूप् । ग्रामणीरित्यर्थनिर्देशः । पूर्वशब्दोऽवयववाची । ग्रामण्यर्थः पूर्वोऽवयवो यस्य स ग्रामणीपूर्वः । अथवा ग्रामण्यर्थविषयो यस्त्यः स साहचर्याद् ग्रामणीरित्युच्यते । स पूर्वमुत्पन्नो यस्य पूगस्य स ग्रामणीपूर्वः । न ग्रामणीपूर्वोऽग्रामणीपूर्वः । ग्रामणीपूर्वात्पूगान्यो न भवति । देवदत्तो ग्रामणीरेषां देवदत्तकाः । स एर्षा ग्रामणीः ''[४ | १|१२]इति कः ।
१. जैनेन्द्रमहावृत्तौ ब० ।
For Private And Personal Use Only