________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ४ पा० १ सू० १५०-११६ ]
महावृत्तिसहितम्
२६५
जातिप्रश्न इति नानुवर्तते । सामान्येन विधानम् । एक्तरो भवतोर्देवदत्तः । एकतमो भवतां देवदत्तः । किमा - दिष्वेकग्रहणं कर्तव्यमिति केचित् । न जातिप्रश्न एव डतमः स्यात् । उत्सर्गस्याको निवृत्यर्थं च योगविभागः । महाविकल्पोऽनुवर्तत एव ।
प्रतिकृतौ कः || ४|१ | १५० || इवार्थः सादृश्यम् । प्रतिकृतिः प्रतिबिम्बम् । विषयद्वारेण इवार्थविशेषणमेतत् | प्रतिकृतिविषये य इवार्थस्तस्मिन् वर्तमानान्मृदः को भवति स्वार्थे । श्रश्व इवायम् अश्वकः । श्रश्वप्रतिकृतिरित्यर्थः । एवम् उष्ट्रकः । गर्दभकः । प्रतिकृताविति किम् ? गौरिव गवयः । श्रश्व इवायं शीघ्रो गौः ।
खौ ||४|१|१५१ ॥ इवार्थमात्रे गम्यमाने मृदः को भवति खुविषये । प्रतिकृत्य र्थोऽयमारम्भः । अश्व इवायमश्वकः । उष्ट्रकः । गर्दभकः । संज्ञाशब्दा एते । संज्ञाशब्देषु च इवार्थो न गम्यते । केवलं वस्तुधर्मेण सादृश्येनान्वाख्यानं क्रियते, तेनेदमपि सिद्धम् । वंशकः । वेणुकः । नडकः । ह्रस्वत्वोपाधिका एताः संज्ञाः । कथं शूद्रक । रावकः । पूर्वकः । एता श्रपि कुत्थितत्वोपाधिकाः संज्ञाः ।
उस्मनुष्ये उपमेये ||४|१|१५२ ॥ मनुष्य उपमेयत्वेनाभिधेये खौ वाऽखौ च विहितस्य भवति । कुक्कुट इव कुक्कुटो मनुष्यः । चञ्चेव चञ्चा | वर्द्धिका । खरकुटी । दासी । "युक्तवदुखि लिङ्गसंख्ये" [ ६८ ] इति युक्तवद्भावः । मनुष्य इति किम् १ अश्वकः पाषाणः । देवपथादेराकृतिगणस्यायं प्रपञ्चः ।
जीविका ||४|१|१५३ || विक्रीयते यत्तत्पण्यम् । न पश्यमपश्यम् । जीविकार्थं यदपश्यं तस्मिन्नुपमेयत्वेनाभिधेये कस्यास्भवति । वासुदेव इवाय देवलकानां वासुदेवः । “इवे प्रतिकृतौ " [४|१|१५०] इत्यनेनागतस्य कस्योस् । शिवः । स्कन्दः । विशाखः । जीविकार्थादेव प्रतिकृतय एवमुच्यन्ते । जीविकार्थे इति किम् ? क्रोडायें हस्तीव हस्तिकः । श्रपश्य इति किम् ? यक्षकं विक्रीणीते । हस्तिकं विक्रीणीते । एषोऽपि देवपथादेः प्रपञ्चः ।
देवपथादिभ्यः ||४|१|१५४|| "इवे प्रतिकृतो " [ ४|१|१५० ] "खौ', [४।१।१२१] इति चागतस्य कस्योस् भवति देवपथादिभ्यः परस्य । देवपथ द्रव देवपथः । इंसपथः । वारिपथः । श्रनापथः । राजपथः । शतपथः । सिद्धगतिः । उष्ट्रगीवः । वाम । रज्जु । हस्त । इन्द्र । दण्ड । पुष्प । मत्स्य । श्राकृतिगणोऽयम् । "अर्थातु पूजनार्थासु चित्रकर्मध्वजेषु च । इवे प्रतिकृतौ नाशः कृतो देवपथादिषु ।। " अर्वासु-अर्हन् । शिवः । स्कन्दः । विष्णुः । चित्रकर्मणि दुर्योधनः । भीमसेनः । श्रर्जुनः । ध्वजेषु चताल इवायं ध्वजतालः । कपिः । गरुडः । श्राकृतिगणत्वादेवेदमपि सिद्धम् ।
"मत्स्याश्वपुष्पाणि च तारकाश्च चण्डार्धचन्द्राश्च पतत्त्रियश्च ।
तस्मिन्नर्थो रुक्ममयाश्चरेज्ञः ( (निवार्थे समाचरेज्ज्ञः ) प्रसार ( प्रासाद ) गुरुमाकमया मृगाश्च || इइ दुर्योधन इवायं नटी दुर्योधनः । "उस्मनुष्ये" [ ४/१/१५२ ] "जी विकार्थेऽपण्ये" [४/१/१५३ ] इति वा उस् ।
बस्तेर्ढम् ||४|१|१५५॥ इव इत्यनुवर्तते । बस्तिशब्दादिवार्थे ढम् भवति । यस्मिन् प्रदेशे मलसम्प्राप्तं बहिर्निष्क्रमति स प्रदेशो बस्तिः । बस्तिरिवार्यं वास्तेयः वास्तेयी प्रणालिका । इत ऊर्ध्वं सामान्येन विधानमिवार्थमात्रे | देवप्रतिकृतौ खौ च के प्राप्तेऽन्यत्राप्राप्ते ढञ् ।
शिलाया ढः || ४|१|१५६ || शिलाशब्दादिवार्थे ढो भवति । शिलेव शिलेयं दधि । शिलाया इति योगविभागात्रमपि केचिदिच्छन्ति । शैलेयम् ।
३४
For Private And Personal Use Only