________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३४
जैनेन्द्र-व्याकरणम् [म० ३ पा० ४ सू०.१०.१ इत्येष विधिन भवति । "भादौ योक्तपुंस्कं वत्" [५११५३ ] इति निर्देशात् । योगापेक्षं चेदं शापकम् । तेन स्रीवदित्यपि सिद्धम् । योगविभाग उत्तरार्थः ।
भावे त्वन्तलौ' ॥२४११०॥ तस्येति वर्तते । तासमर्थाद् भावेऽर्थे त्यन्' तल इत्येतो त्यो भवतः । नकारः "सीसान्नुक्त्वात्" [ ३१७२] इत्यत्राऽस्यावधिरूपेण ग्रहणं मा भूत् इत्येवमर्थः । लकारस्तलन्तः स्त्रियामिति विशेषणार्थः । भावः शब्दप्रत्ययप्रवृत्तिकारणम् । तद्यथा भवतोऽस्माच्छुब्दप्रत्ययाविति भावः । उक्तं च "यस्य गुणस्य हि भाषावाव्ये शब्दविनिवेश:, तदभिधाने स्वतको [पा० महा० ५/११९] इति । इह गुण इति विशेषणमात्रम्, द्रव्यमिति विशेष्यमात्रम् इष्टम् । श्रश्वस्य भावः, अश्वत्वम् । अश्वता । शुक्लत्वम् । शुक्लता। अत्र जातिगुणयोरभिधाने त्वन्तलो। सम्बन्धस्तु गम्यो नाभिधेयः । इह पाचकत्वमिति क्रियाऽभिधाने । अथवा सम्बन्धप्रधानाः । सम्बन्धे चाभिधेये त्वन्तलौ । कारकत्वम् । श्रोपगवत्वम् । राजपुरुषत्वमिति । एतेऽपि ये जातिगुणशब्दाः, तेभ्यो जातिगुणस्य चाभिधाने । कुम्भकारत्वम् । हस्तित्वम् । राजवृतत्वम् । ये गुणमात्रवचना रूपं रसो गन्ध इति, तेभ्यः सामान्याभिधाने रूपत्वम् , रसत्वम् । उपचारशब्देषूपचारनिमित्तेऽभिधेये गोत्वं वाहीकस्य । अग्नित्वं माणवकस्य । पृथक्त्वं नानात्वमित्येवमादौ असत्त्वभूतत्वेऽपि शब्दान्तरेण तासमर्थता पृथगित्यस्य भाव इति । यदृच्छाशन्देषु डित्यादिषु संज्ञासम्बन्धामिधाने सर्वावस्थाव्याप्याकृतिसामान्याभिधाने च डिस्थत्वम् । उत्क्षेपणादिषु सामान्येऽभिधेये उत्क्षेपणत्वम् ।
आ च त्वात् ॥३।४।११२॥ वक्ष्यति "ब्रह्मणस्पः" [२४/१२६ ] इति । प्रा एतस्मात् त्व संशब्दनाद्यदित ऊर्ध्वमनुक्रमिष्यामस्त्वन्तलो तत्राऽधिकृतौ वेदितव्यौ। अपवादविषये समावेशार्थ कर्मणि च विधानार्थमेव तावधिक्रियेते । वक्ष्यति "पृथ्वादेमन्[३२११२] प्रथिमा। पृथुता। ननु वावचनात् त्वन्तलौ स्वयमेव भविप्यतः १ नैतदेवम्, "ल्यादेरिकः" [११२१] इत्येवमादिसमावेशार्थ तद् वावचनम् । चकारकरण किमर्थम् ? "स्त्रीपुंसान्नुक्त्वात्" [११७२] इत्यस्मिन्नाप विषये प्रापणार्थम् । स्त्रीत्वम् । स्त्रीता। पुंस्त्वम् । पुंस्ता । प्राक्त्वादिति मर्यादाकरणसामर्थ्यादपि सिद्धः । स्त्रिया मावः स्त्रैणम् । पौंस्नम् ।
पृथ्वादेर्वमन् ॥३।४।११२॥ पृथु इत्येवमादिभ्यो वा इमन् भवति तस्य भाव इत्यस्मिन्विषये । वावचनं यादेरिकः" [३।१११२१] इत्यस्याणः, गुणवचनेभ्यष्ट्यणः, वयोवाचिभ्यस्त्वाः समावेशार्थम् । पृथोर्भावः, प्रथिमा, पार्थवम्, पृथुत्वम्, पृथुता । पृथु । मृदु । महि । पटु । तनु । लघु । बहु । बासु । ऊरू । बहुल । दण्ड । खण्ड । चण्ड । अकिञ्चन । बाल । होड । पाक । वत्स । मन्द । स्वादु । ऋजु । वृष । हस्व । दीर्घ | क्षिप्र । तुद्र । प्रिय ।
वर्णदृढादेष्टयण च ॥३।४।११।। वर्णशब्देन वर्णविशेषा गुणोपसर्जने द्रव्ये ये वर्तन्ते, तेषामिह ग्रहणम् । तादृशैरेव दृढादिभिर्गुणवचनैः साहचर्याद् वर्णविशेषवाचिभ्यो दृढादि यश्च ट्यण भवति संवा तस्य भाव इत्यस्मिन्विषये । शुक्लस्य भावः शौक्ल्यम् , शुक्लिमा, शुक्लखम् , शुक्लता । कार्यम् । कृष्णिमा । शैत्यम् । शितिमा, शितित्वम् । विभाषाऽनुकर्षणादन( ण )पि भवति । शैतम् । दृढादिभ्यः । दृढस्य भावः, दार्यम् , द्रढिमा, दृढत्वम्, दृढता । दृढशब्दस्य तुन्धादिषु अनिट्त्वं ढखं च निपात्यते । दृद्ध । बर। परिवृढ । कृश । भृश । चुक्र । अम्ल । लवण । "वेर्यातकातरसमतिमन:शारवानाम्"
1. स्वत्तलौ म०, पू० । २. स्वत् अ०, पू० । ३. -ब्दनिवेशः पा• महा० । ५. त्वतको पा. महा० । स्वत्तको घ० पू०।५. स्वत्तली म०, पूछ।
For Private And Personal Use Only