________________
४०
महावृत्तिमहितम् ।
मनु मन्तु तन्तु मनायो ढ प्राप्तः । भस्य हत्यढ इति पुंवद्भावः कस्मान्न भवति कौडिन्यागस्तो इतिनिर्देशात् यदि यत्रि पुंवद्भावः स्यात् कुण्डिनी शब्दस्य पुंवद्भावे टिखे च कृते कौंडिन्य इति न स्यात् । सूनु कथक रुक्ष तलुक्ष तड बतण्ड कपि कत सकल कुरुकल अयमनुशतिकादौ अनुडुह कंठ गोकक्ष अगस्त्य कुण्डनी यज्ञवल्क प्रभयजात बिरोहित वृषणगण रहोगण संडिल मुद्गल मुसल पराशर जतूकर्ण मन्त्रितः अस्मरथ शर्कराक्ष पूतिमाष स्थूर अरराक वानरथ पिंगल कृष्ण गोलुन्द उलूक तितंभ तितिव भिषण तिलन मंडित चिकित दिवहू इन्द्रहू एकहू एकलू पिप्यलु वृहदग्रि सुलासिन् कुटीगु सक्थ । गृद्ध इत्येव । आनन्तरो गार्गिः । कथमनन्तरो जामदग्न्यो रामः पाराशय व्यास इति । गोत्राध्यारोपेण अनन्तरापत्ये ऋष्यणा भबितव्यम् । लौकिकात्रमात्र इत्येव । यो गोत्रस्याप्रवर्तको गर्गस्त स्थापत्यं वृद्ध गार्गि:
1:1
मधुबभ्वोर्ब्राह्मणकौशिकयोः ॥ ८५ ॥
वृद्ध इति वर्तते । मधु बभ्रु इत्येताभ्यां यज् भवति यथासंख्यं ब्राह्मणे कौशिकेऽत्राभिधेये । माधव्यो ब्राह्मणश्चेत् माधवोऽन्यः । बाभ्रव्यः कौशिकश्चेत् बाभ्रवोन्यः । बभ्रु - शब्दो गर्गादिषु पठ्यते तस्येह नियमार्थं वचनम् । कौशिक एव यथा स्यात् गर्गादिषु पाठो लोहितादिकार्यार्थः बाभ्रव्यायणी । अथ गणे एवं कौशिकग्रहणं कर्तव्यम् । इह करण वृद्धार्थम् । ननु गणेपि वृद्ध यन्विहित एदमेव तर्हि ज्ञापकं गणपाठे क्वचिदनन्तरापत्येऽपि यज् भवति जामदग्न्यो रामः पाराशर्यो व्यास इति ।