________________
महावृत्तिसहितम् । रावखादित्युप द्विकुडवी । याढकी । ज्याढको । रादिति सिद्धे नियमार्थो ऽयम् । यतः परिमाणादेव हृदुपि नान्यतः । पञ्चभिरश्वैः क्रीता पञ्चाश्वा दशाश्वा तुल्य जातीयस्य नियमानि. वृत्तिः । समाहार भवत्येव । पञ्चाश्वी । परिमाणादिति योग धभागः कर्तव्यः । तत इष्टतावधारण लभ्यते परिमाण शब्देनेड सूढिवशात् प्रस्थादिगृह्यते । कालसख्ययोर ग्रहणाम् । तेन द्विवर्षा । निवर्षा । द्विशता । त्रिशता । वे वर्षे प्रमाणमस्या: प्रमाणध्वंसनं राच्चेति द्वयडादीनामुप् । उक्त च उर्द्धमानं कितन्मानं परिमाणं तु सर्वतः। आयामस्तु प्रमाणं स्यात् सख्या बाह्या तु सर्वतः ।
न बिस्ताचितकम्बल्यात् ॥ २७ ॥ विस्त आचित कम्बल्य इत्येवमन्तात् रात् हृदुषि ङोत्यो न भवति । बिस्तादीनां परिमाणत्वात् सर्वेण प्राप्ति. द्वाभ्यां बिस्ताभ्यां क्रोता द्विबिस्ता । त्रिबिस्ता। याचिता । ज्याचिता । द्विकम्बल्या । त्रिकम्बल्या ।
___ काण्डात् क्षेत्रे ॥२८॥ कागडशब्दान्तात रात् हृदपि सति क्षेत्रेऽभिधेये ङीत्यो न भवति । द्वे काण्डे प्रमाणमस्या विकाण्डा त्रिकाण्डा क्षेत्रमक्तिः । प्रमाणे यस मात्रट इत्यागतानां द्वयसडादीनां प्रमाणे ध्वंसनं राञ्चेति वक्ष्यमाणया इष्टया उप कांडं धनुः तस्य परिमाणशब्देनासंगृहीतमतः परिमाणाधुदुपौत्यनेन नियमेन प्रतिषेधे मिद्ध नियमार्थमिदम् । क्षेत्र एव प्रतिषेधे भवति नान्यत्र । द्विकाण्डी । त्रिकाण्डी रज्जुः । रादितिडी विधिः ॥