SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ ३६६ महावृत्तिसहितम् । ୧ उच्चारणार्थः । पचेय । पचेव हि । पचेमहि । पचेथाः । पचेयाथाम् । पचेध्वम् । पचेत । पचेयाताम् । पचेरन् । रुदादेग इति वर्तमाने लिङो ऽनन्त्यसखमिति मोयुट्सकारस्य सुट्तथोरिति सुट्सकारस्य च खम् । आशिषि लिङ् । पक्षीय । पक्षीaft | पक्षीमहि । पक्षीष्ठाः । पक्षीयास्थाम् । पक्षीध्वम् । पक्षीष्ट । पक्षीयास्ताम् । पक्षीरन् । यासु भो ङित् ॥ ८३ ॥ लिङ इति वर्तते । लिङो मविषयस्य यासुडागमो भवति fisa | सीयुटो ऽपवादोऽयम् । अत्र किदाशिषोति वचनात् विच्या दिलक्षणस्य लिङ इहोदाहरणम् । कुर्याम् । कुर्याच । कुर्याम | कुर्याः । कुर्यातम् । कुर्यात । कुर्यात् । कुर्याताम् । कुर्युः । कृञो ये व इति विकरणस्य खम् । झेर्जुखीति जुस् उसीति पररूपम् । स्थानिवद्भावादेव लिङादेशस्य ङित्वे सिद्धे यासुटो ङिद्वचनं ज्ञापकं लकाराश्रयमादेशानां ङित्वं टित्वं च न भवति तेन श्रचिनवमित्येपू सिद्धः । पचमाना स्त्री टित इति ङीत्यो न भवति । किदाशिषि ॥ ८४ ॥ 1 आशिषि लिङो यासुट् किद्भवति । ङित्वे प्राप्त कित्वं विधीयते । ज्यर्थं नागर्तेरेबर्थं च । उद्यासम् । उह्यास्व । उह्यास्म । उाः। उह्यास्तम् । उद्यास्त । उद्यात्। उद्यास्ताम् । उद्यासुः । जागर्यासम् । जागर्यास्व । जागर्योहन । जागुर विजि गलिङतीत्येम् । रन्नज्मेटः ॥ ८५ ॥ लिङादेशयोग इट् इत्येतयोर्यथासंख्यं रन् अत इत्येतावादेशौ भवतः । पचेरन् । पक्षीरन् । कोन्तइत्यस्यायमपवादोऽयम् | पक्षीय । क्षीयाशीः प्रवेषु मिङाकांक्षमित्येवमादिना प्राप्तस्य पस्य निवृत्त्यर्थं तपरकरणम् ।
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy