________________
जैनेन्द्रव्याकरणम् |
३४७
सर्व साधुं प्रणमतीत्यर्थः । अतिथिवेदं भोजयति । यं यं विन्दति विन्ते वा तं सर्वं भोजयतीत्यर्थः । अशेष इति किम् । अतिथिं हृष्ट्वा भोजयति ।
यावति विन्दजीवः ॥ १६ ॥
यावच्छब्दे वाचि बिन्दतिजीवत्येार्णम् भवति । यत्र पूर्व कालत्य संभवति तत्र तकापवादः । यत्र न संभवति तत्रापूर्व एव विधिः । धुयोग इति वर्तते । यावद्वेदं भुङ्क्त े । यावलभते तावद्भुत इत्यर्थः । यावज्जीवमधीते । यावज्जीवति तावदधीते इत्यर्थः ।
1
चर्मोदरयेाः पूरेः ॥ १७ ॥
कर्मणीति वर्तते । चर्म उदर इत्येतयोः कर्मणोर्वाचोः पूरयतेर्णम् भवति । चर्मपूर शेते । उदरपूरं भुङ्क्त े । वर्ष प्रमाणे ॥ १८ ॥
कर्मणीति वर्तते । कर्मणि वाधि पूरयतेः णम् भवति समुदायेन वर्षप्रमाणे गम्यमाने । गोष्पदपूरं वृष्टो देवः । शीतापूरवृष्टो देवः । कथं गोष्पदमं वृष्टो देवः प्रातेरातः के कृते क्रियाविशेषणत्वेन नपुंसकलिगं एतस्य कन्तस्यैव विभश्यं. तस्य व्यादिषु च प्रयेागः साधुः | गोष्पदप्रेण गोष्पदमी भवति गोष्पदप्रतरम् गोष्पदपूरं वृष्टो देवः इत्येवमादायुभयथा प्रयोग इष्यते णमन्तस्य घञन्तस्य च क्रियाविशेषणभावेन प्लुतिषिभक्त्यन्तरे च विशेषः णमन्तस्यहि देश्यादिषु गोष्पदपूरं भवति गोष्पदपूर देश्यम् गोष्पदपूरदेशीयं गोष्पदपूर्वकल्पं गोष्पदपूरतराम् । घञन्तस्य गोष्पदपुरोभवति गोष्पदपूरदेश्यं गोष्पदपूरदेशीयम् गोष्पदपूरकल्पम् | गोष्पदपूरतराम् । चेलेषु क्रोपेः ॥ १८ ॥