________________
-
sh
महावृत्तिसाहितम् । विधिनिमन्त्रणामन्त्रणाधीष्टसंमश्नप्रार्थने लिङ ॥१३८ ।
विधिराज्ञापनम् । निमन्त्रणं नियमेन करणम् । यदकरणे प्रत्यवाय इत्यर्थः । मामन्त्रणं स्वेच्छया करणम् । अधीष्टः सत्कारपूर्विका व्यापारणा । संप्रश्नः संप्रधारणा । प्रार्थनं याउचा । विध्या दिष्वर्थेषु लिङ् भवति । सर्वत्यापवादः। विध्यादिविशिष्टेषु कादिषु त्यार्थेषु लिङ् भवति इत्यर्थः । कटं भवान् कुर्यात् । प्राणिना भवान हिंस्यात् । निमन्त्रणे संध्यासु भवान् आवश्यकं कुर्यात् । प्राचारं भवानघीयीत । आमन्त्रणे इह भवानासीत इह भवान् शयीत । अधीष्टे अधीछामो भवान् व्रतं रक्षेत् । तत्वं भवान् गृह्णीयात् । संप्रश्ने किन्नु खलु भोः जैनेन्द्रमधीयीय । प्रार्थने भक्षति मे प्रार्थना व्याकरणमधीयीय तर्कशास्त्रमधीयीय । यदि विध्यादिषु प्रकृत्युपाधिषु लिङ् विधीयेत । इह विद्ध्यात् निमस्त्रयेत आमन्त्र येत अधीच्छेत् । प्रकृत्येवं विध्यादयो विधीयन्ते इति लिङ् प्राप्नोति तस्माद्विध्यादयः कर्व कर्मभावानां विशेषणानि तदभावादिह लिङ् न भवति विदधति निमन्त्रयते आमन्त्रयते अधीच्छति अन क्रियाया अवृत्तौ परत्वामटा लड़ बाध्यते।
लोट ॥ १३४ ॥ लोट् अति विध्यादिविशिष्टेषु कादिषु च विधौ । ग्राम भवान्नागच्छतु । प्राणिना भवान्न हिनस्तु । निमन्त्रणे संध्यासु भवानावश्यकं करोतु । प्राचारमधीताम् । आमंत्रणे । इह अधानास्ताम् । इह शेताम् । अधीष्टे अधीच्छामे सधान व्रतं रक्षत। तत्वं भवान् गृह्णातु । संप्रश्ने किन्नु खलु भो काव्यमध्ययै । प्रार्थने भवति में प्रार्थना धर्मशास्त्रमध्ययै । योगविभाग उत्तरार्थः ।