________________
जैनेन्द्रव्याकरणम् ।
२६४ आदरी । क्षयी। विश्रयी । अत्ययी । वमी । अव्य थी। अभ्यमी॥ स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य
पालुः ॥ १४१ ॥ स्पृहिप्रभृतिभ्यो धुभ्यः पालुर्भवति । स्पृहयालुः गृहयालुः । पतयालुः । एते चुरादिष्वदन्ताः । दयालुः निद्रालुः । तन्द्रालुः । तन्नित्तिनिपातनमाविषये न भवति । श्रद्धालुः॥ इह शीङा ग्रहणं कर्तव्यम् । शयालुः॥
दाधेट्रिशदसदो रुः ॥ १४२ ॥
दा घेट सि शद सद इत्येभ्यो हर्भवति । दा इत्य विशेषेण ग्रहणम् । दारुः । धारु वत्सोमातरम् । नशि तेत्यत्र उकारप्रश्लेषात् तदन्तविधिना तायाः प्रतिषेधः सेरुः । शदुः। सद्रुः। यत्वात्मकर्मणिघतेदीर काष्ठं तद्णादिषु द्रष्टव्यम् ।
सघस्यदः क्नरः ॥ १५३ ॥ समरः । घस्मरः । अझरः । अनैनवादेः घसभावो निपात्यते ॥
भञ्जभासमिदा घुरः ॥ १४४ ॥ भञादिभ्या घुरो भवति । भञ्जरात्मकर्मण्यभि. धानं भङ्गरं काष्ठम् । भासुरं ज्योतिः । मेदुरं मुखम् ॥
विद्भिच्छिदः कुरः ॥ १४५ ॥ विद् भि छिद् इत्येतेभ्यः कुरो भवति । विदुरः
-