________________
२९८
महात्तिसहितम् । जपिदंशिम्यां लुपसदचरजपजभदहादसोगह इति पङजपजभदहदशभक्षपसामितिचस्यनुगमः ॥
जागुः ॥ १३६ ॥ जागुरूको भवति । जागरूकः ॥ लषपतपदस्थाभूवषहनशकमगम उकज ॥१२॥
लषादिभ्यः उकञ् भवति । अपलाषकं नीचसङ्गतम् । अपेचलष इति वचनात् घिनिणपि भवति । प्रपा तुका गर्भाः। उपपादुकाः देवाः । उपस्थायुको गुरुन् । प्रभावुकः । प्रवर्षकः। श्राघातुकः । शृणोते शासकः । कामुका वन्यस्य स्त्रियो भवन्ति । भष्भतेत्यादिना कर्मणि ताया प्रतिषेधे प्राप्ते उकप्रतिषेधः इत्युक्तः । आगामुकः स्वगृहम् ॥
जल्पभिक्षकुट्टलुण्टङष्टाकः ॥ १३८ ॥
जल्पादिभ्यो धुभ्यष्टाको भवति । जल्पाकः। जल्पाकी। अकर्मकविवक्षायां रुचलार्थाद्धेयुजिति युच् प्राप्तः । भिक्षाकः । अनुदातेता युच् प्राप्तः । कुटाकः । लुण्टाकः । बराकः॥
प्रे सृजोरिन् ॥ १३६ ॥ प्रपूर्वाभ्यां सृजुभ्यां इन् भवति । प्रसवी । प्रजवी ॥ परिभूजिदक्षिवित्रीण्वमाभ्यथाम्यमः ॥१४॥
इनिति वर्तते । परिभू जि दक्षि विश्रा इण वम अव्यथ अभ्यम इत्येतेभ्य इन् भवति । परिभावि । जयी।