________________
| २६६
महावृत्तिसहितम् । निन्दादिभ्यो बुञ् भवति शीलादिषु । निन्दक: क्लिशेरविशेषेण ग्रहणे युचापि बाधा। क्लेशकः । खादकः। विनाशेय॑न्तस्य विनाशकः । असूय इति कंडवादियंगन्त असूयकः । एवुना सिद्धे बुजग्रहणं ज्ञापकमन्येभ्यः शीला. दिषु ण्वादयो न भवन्तीति ॥
परी वादिक्षिपरटः॥ १२८ ॥ परिपूर्वेभ्यः वादि क्षिप रट् इत्येतेभ्यो वुन भवति । परिवादकः । परिक्षेपकः । परिराटकः ॥
देविक्रुशो गौ ॥ १२६ ॥ देवि क्रश इत्येताभ्यां गौ वाचि वुज भवति । देवीति देवतेण्यन्तस्य । परिदेवकः । प्रादेवकः। परिक्रोशकः । आक्रोशकः । गाविति किम् । देवयिता ।
___ रुचलार्थाद्धेर्युच् ॥ १३० ॥
रौत्यर्थेभ्यश्चलत्यर्थेभ्यश्च धिसंज्ञकेभ्यः युच भवति । रवणः। शब्दनः । कथनः । चलत्यर्थेभ्यः। चलनः। चोपनः । कम्पनः । धेरिति किम् । पठिता शास्त्रम् ॥ अनुदात्तेतेो ऽयसूददीपदीक्षो हलादेः ॥ १३ १
अनुदात्ततो हलादेोयुच भवति यकारान्तसूददीपदोक्ष इत्येतान्वजयित्वा । द्योतनः । रोटनः । अनुदात्तेत इति किम् । यष्टा । अयसूददीपदीक्ष इति किम् । यिता। क्षमाथिता । सूदे सकर्मकस्यापि सूदिता। कथं मधुसूदनः । नन्द्यादिपाठाण्युः। दीपिता । दीपेविशेषेण रो विधास्यते युचः प्राप्तिास्ति । इदं प्रतिषेधवचनं ज्ञापक