________________
-
जैनेन्द्रव्याकरणम् । विभाष्यते अक्तभवत्येव प्रतिषेधाभावात् । पूर्वके । पूर्वका इत्येवमादि ज्ञेयम् ॥
डिङस्योरतः ॥ ४३ ॥ पूर्वादयो नव चेति चानुवर्तते । अकारान्तानि नव | पूर्वादीनि डिङस्योर्वा सर्वनामसंज्ञानि भवन्ति । पूर्वस्मिन् । पूर्वे। पूर्वस्मात् । पूर्वात् । परमिन् । परे। परस्मात् । परादित्यादि योज्यम् । ङिङस्याश्रयं कार्य विभाष्यते अक्तु भवत्येव । अत इति किम् । पूर्वस्याम् । पूर्वस्याः ॥
तीयस्य डिति ॥ ४४ ॥ तीयस्थान्तस्य ङिति वा सर्वनामसंज्ञा भवति । द्वितीयस्मै। द्वितीयाय। तृतीयस्याः। तृतीयायाः। इह मुखादागतः पाचीदागतः मुखपाश्वतसोरीय इतीयः। मुखतीयः । पाश्वतीयः । पर्वते जातः पर्वतीय इति । अमीषां लाक्षाणिकत्वादग्रहणम् । डिन्तीति किम् । द्वितीयानाम् । ङिति कार्य विकल्पते अक्तु न भवत्येव । कुत्साद्यर्थे के कृते द्वितीयकाय ॥
इग्यणा जिः॥ ४५ ॥ इक यो यणः स्थाने भूतो भावी वा स जिसंज्ञो भवति । इक् यणः स्थाने भावित्वेनासत्त्वात् कथं जिसंज्ञ इति ? चेत् संज्ञिनो भावित्वात्संज्ञापि भाविनी । यथास्य सूत्रस्य शाटकं वयेति भावो। यथा षेष्यस्य पुत्रपत्योर्जिः। वसोर्जिरिति । कारोषगन्धोपुत्रः। विदुषः । यस्य शास्त्रान्तरेण भूतो यणः स्थाने इग्भूतो जिसंज्ञो यथा जेरिति
-
-
appe