________________
-
जैनेन्द्रव्याकरणम् ।
२८५ श्र इत्येतस्माद्वसुर्भवत्यनिट् । उपशुश्रवान् श्रीदत्तं धान्यसिहः । असमत्त्वाण्यङाद्यापि उपाशृणोत् । उपशुश्राव ।।
अनाश्वाननूचानी ॥ ६ ॥ अनाश्वान अनूचान इत्येता शब्दा निपात्येते । नपूर्वादनातेः वसुलिदिडभावश्च निपात्यते । अनाश्वांस्तपश्चकार । असमत्वात् नानात् नाश इत्यपि भवति। वचेग्नुपूर्वात् कर्तरि कानो निपात्यते । अनूचानो व्रतापपन्नः। असमत्वात् अनूक्तवान अन्ववोचत् अनूवाच इति च भवति ॥
लुङ ॥ १॥ लुङ् इत्ययं त्यो भवति भूते धोः। अकार्षीत् अहार्षीत् । क भवानुषितः । अमुत्रावात्समिति । अत्र भूतमात्रस्ववक्षयात्त एवमिति लङ् न भवति ॥
अनद्यतने लङ ॥ २ ॥ भृत इति वर्तते। अविद्यमानाद्यतने भूते घोर्लङ् भवति। अतीताया रात्रेः आ पश्चिमयामात् आगामिन्याश्च रात्रेगप्रथमयामात् अद्यतनकालः । तत्प्रतिषेधादनद्यतनः । अकरोत् । अहरत् । अनद्यतनभूतविवक्षायाः समत्वाल्लुडो वाधको लङ। अनद्यतन इति वसनिर्देशाद्यत्रायतनगन्धोऽप्यस्ति तत्र लङ् न भवति । अद्य ह्यश्वामुक्ष्महि यदिवसः अद्यतनेप्यद्यतना नास्तीति लज्वानोति नायं दोषः। विशेषाद्यतने सामान्याद्यतनस्य विद्यमानत्वात् ।
-
-